Enter your Email Address to subscribe to our newsletters

काठमाण्डूनगरम्, १५जनवरीमासः (हि.स.)। मकर-सङ्क्रान्ति-पर्वणि प्रतीक्षमाणः नेपाली-काङ्ग्रेस-दलेन विशेष-महाधिवेशन-समर्थक-दलं नवीनां केन्द्रीय-कार्यसमितिं घोषितवान्। भृकुटी-मण्डपे विशेष-महाधिवेशनस्य निरुद्ध-सत्रे उद्घोषिकया रात्रौ द्वादश-वादने उक्तम् यत् “वयं नूतन-दिनस्य प्रतीक्षां कुर्वन्त: आस्म, अतः किञ्चित् विलम्बः अभवत्।”
रात्रौ सपात्-एकादश-वादनात् अनन्तरं सभापतिः गगन-थापा-सहितं पदाधिकारिणां तथा केन्द्रीय-सदस्यानां नामानि मञ्चात् पठितानि। नाम-पठनेन सह राजनैतिक-भाषणानि अपि प्रचलन्ति स्म, येन सम्पूर्णा प्रक्रिया प्रायः द्वयोः होरयोः समयंं गृहीतवती।
अस्मिन्नेव काले विशेष-महाधिवेशनात् नव-केन्द्रीय-कार्यसमितेः चयनं कृतम्। देउवा-पक्षस्य असहमतेः अपि अवहेलनया आयोजिते अस्मिन् महाधिवेशने अन्तिम-सहमति-प्रयासाः विफलाः अभवन्, ततः समितेः घोषणा कृता।महाधिवेशनात् गगन-थापा सभापतिः निर्वाचितः।
उपसभापतयः-विश्वप्रकाश-शर्मा, पुष्पा-भुसालश्च
महामन्त्रिणौ- प्रदीप-पौडेल:, गुरुराज-घिमिरे
सह-महामन्त्रिणः- महिला-वर्गात् – डिला-सङ्ग्रौला दलित-वर्गात् – प्रकाश-रसाइली आदिवासी-वर्गात् – बहादुरसिंह-लामाखस-आर्य-वर्गात् – उदय-शम्शेर-जबरा मधेशी-वर्गात् – मुक्ताकुमारी-यादव: मुस्लिम-वर्गात् – फरमुल्लाह-मन्सुर: थारू-वर्गात् – योगेन्द्र-चौधरी पिछड़ा-क्षेत्रात् – कर्णबहादुर-बुढा
हिन्दुस्थान समाचार / अंशु गुप्ता