Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १५ जनवरीमासः (हि.स.)।प्रधानमन्त्री श्रीनरेन्द्र-मोदी महोदयेन उक्तं यत् भारतदेशे लोकतन्त्रस्य वास्तविकः अर्थः अन्तिम-पङ्क्तिस्थ-व्यक्तिपर्यन्तं लाभप्राप्तिरस्ति। सः अवदत् यत् सर्वकारः लोक-कल्याण-भावनया विना भेदभावं सर्वेभ्यः नागरिकेभ्यः कार्यं करोति, अत एव गतवर्षेषु देशे प्रायः पञ्चविंशति-कोटि-जनाः दरिद्रतायाः बहिः नीताः सन्ति।
प्रधानमन्त्री मोदी गुरुवासरे संसद-भवन-परिसरे स्थिते संविधान-सदने केन्द्रीय-कक्षे आयोजितस्य राष्ट्रमण्डल-अध्यक्षाणां पीठासीन-अधिकारिणां च अष्टाविंशतितम-सम्मेलनस्य उद्घाटनानन्तरं सम्मेलनं सम्बोधितवान्।सः अवदत् यत् यस्मिन् ऐतिहासिके केन्द्रीय-कक्षे इदं सम्मेलनं भवति, सः भारतस्य लोकतान्त्रिक-यात्रायाः अत्यन्तं महत्वपूर्णं स्थलम् अस्ति। दासत्वस्य अन्तिम-वर्षेषु, यदा भारतस्य स्वातन्त्र्यं निश्चितम् अभवत्, तदा अस्मिन्नेव केन्द्रीय-कक्षे संविधान-सभायाः सभा: अभवन्। स्वातन्त्र्यानन्तरं प्रायः पञ्चसप्तति-वर्षपर्यन्तं एषः भवनः भारतस्य संसद् आसीत्, यत्र देशस्य भविष्यसम्बद्धाः अनेके महत्त्वपूर्णाः निर्णयाः चर्चाश्च अभवन्। अधुना अस्य लोकतन्त्र-समर्पितस्य ऐतिहासिक-स्थलस्य नाम “संविधान-सदनम्” इति कृतम्।
प्रधानमन्त्री अवदत् यत् एषः चतुर्थः अवसरः अस्ति यदा राष्ट्रमण्डल-अध्यक्षाणां पीठासीन-अधिकारिणां च सम्मेलनं भारतदेशे आयोज्यते। अस्याः वार्तायाः मुख्य-विषयः संसदीय-लोकतन्त्रस्य प्रभावी-कार्यप्रणाली जनकल्याणाय च तस्य प्राप्ति:अस्ति।
सः संसदीय-लोकतन्त्रे अध्यक्षस्य भूमिकां प्रकाशयन् अवदत् यत् अध्यक्षस्य कार्यं स्वयम् अधिकं वक्तुं न, अपि तु अन्येषां श्रवणं सर्वेभ्यश्च समान-अवसर-प्रदानं च। अध्यक्षाणां धैर्यमेव लोकतन्त्रस्य गरिमां धारयति, ते च कोलाहलं अति-उत्साही-सदस्यान् अपि स्मितेन सह संहरन्ति।
प्रधानमन्त्री मोदी अवदत् यत् स्वातन्त्र्यकाले बहवः जनाः शङ्कां कुर्वन्ति स्म यत् एतादृश-विविधतायुक्तः देशः लोकतन्त्रं सफलतया चालयितुं शक्नोति वा न वा। किन्तु भारतदेश: स्व-विविधतामेव लोकतन्त्रस्य शक्तिं कृतवान्। भारतेन सिद्धं यत् लोकतान्त्रिक-संस्थाः प्रक्रियाश्च विकासाय स्थैर्यं वेगं व्यापक-विस्तारं च प्रददति।
सः अवदत् यत् अद्य भारतदेश: विश्वस्य तीव्रतम-वर्धमान-प्रमुख-अर्थव्यवस्था अस्ति। भारतदेशे विकसितः एकीकृत-भुगतान-प्रणाली (UPI) अद्य विश्वस्य सर्वाधिक-बृहद् डिजिटल-भुगतान-व्यवस्था अभवत्। भारतदेश: वर्तमानकाले विश्वस्य सर्वाधिक-टीका-उत्पादकः देशः अस्ति तथा इस्पात-उत्पादने द्वितीय-स्थानं वर्तते।
प्रधानमन्त्री अग्रे अवदत् यत् भारतदेशे अद्य विश्वस्य तृतीयः सर्वाधिकः नवाचार-स्टार्टअप-परिवेशः अस्ति। भारतः विश्वस्य तृतीयः सर्वाधिकः विमानन-बाजारः अपि अभवत्। तेन सह भारतस्य समीपे विश्वस्य चतुर्थः सर्वाधिकः रेल-जालः तथा तृतीयः सर्वाधिकः मेट्रो-रेल-जालः अपि अस्ति।
प्रधानमन्त्री मोदी अवदत् यत् लोकतन्त्रं भारताय सर्वोपरि अस्ति। जनता-जनार्दनस्य स्वप्नान् प्राथमिकतां दत्त्वा सर्वकारः नीतिभ्यः प्रौद्योगिकीपर्यन्तं सर्वत्र लोकतान्त्रिक-चिन्तनं स्वीकृतवान्, यत् विकास-मार्गे कापि बाधा न स्यात्।सः कोरोना-महामारीं स्मारयन् अवदत् यत् तस्मिन् कठिन-काले अपि भारतदेश: स्व-आवश्यकतानां पूर्तिं कृत्वा अधिकं शतपञ्चाशत्-देशेभ्यः औषधय: टीकाः च उपलब्धान् अकरोत्।
मानव-सेवा, जन-कल्याणं तथा विश्व-प्रति उत्तरदायित्व-भावना भारतस्य संस्कृति-लोकतान्त्रिक-मूल्ययोः अभिन्नः भागः अस्ति।
मोदी अवदत् यत् भारतदेश: सर्वेषु वैश्विक-मञ्चेषु “ग्लोबल-साउथ” हितान् पूर्ण-शक्त्या उत्थापयति। स्वस्य G20 अध्यक्षतायाम् अपि भारतः ग्लोबल-साउथ चिन्ताः वैश्विक-कार्यसूच्याः केन्द्रे स्थापितवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता