प्रधानमंत्री सेना दिवसे भारतीय सेनायाः शौर्यबलिदानयोः कृते विहितं नमनम्
नवदिल्ली, 15 जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सेनादिवसस्य अवसरं कृत्वा भारतीयसेनायाः अदम्यं साहसं पराक्रमं कर्तव्यनिष्ठां च सादरं नमस्कृतवान्। प्रधानमन्त्रीणा उक्तं यत् भारतीयसेनायाः जवानाः निःस्वार्थसेवायाः अखंडसंकल्पस्य च प्रतीकाः
caacd35a900b68a8c4347d5c8564cc3d_625281821.jpg


नवदिल्ली, 15 जनवरीमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी सेनादिवसस्य अवसरं कृत्वा भारतीयसेनायाः अदम्यं साहसं पराक्रमं कर्तव्यनिष्ठां च सादरं नमस्कृतवान्। प्रधानमन्त्रीणा उक्तं यत् भारतीयसेनायाः जवानाः निःस्वार्थसेवायाः अखंडसंकल्पस्य च प्रतीकाः सन्ति, ये सर्वासु परिस्थितिषु राष्ट्रस्य सुरक्षां सुनिश्चितं कुर्वन्ति। तेषां कर्तव्यबोधः समग्रे देशे विश्वासस्य कृतज्ञतायाश्च भावं जनयति। कर्तव्यपथे स्वप्राणान् न्योछावरितवन्तः वीरसैनिकाः अपि तेन श्रद्धया स्मृताः।

प्रधानमन्त्री सामाजिकमाध्यममञ्चे ‘एक्स्’ इति नाम्नि पृथक् पृथक् सन्देशान् सहकुर्वन् अवदत् यत् दुर्गमेभ्यः प्रदेशेभ्यः आरभ्य हिमाच्छादितशिखरपर्यन्तं भारतीयसेनायाः शौर्यं पराक्रमश्च प्रत्येकं देशवासिनं गौरवान्वितं करोति। सीमायां तैनातानां जवानानां देशः हृदयतः अभिनन्दनं करोति।

अस्मिन् अवसरे कृत्वा प्रधानमन्त्रिणा एकं संस्कृतसुभाषितमपि सहकृतम्, यस्मिन् सः सशस्त्रबलानां साहसं आत्मविश्वासं कर्तव्यस्य च शाश्वतभावं प्रशंसितवान्। तेन उक्तम्अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु।

अस्माकं वीरा उत्तरे भवन्त्वस्माँ उ देवा अवता हवेषु॥

(अर्थः— यदा अस्माकं ध्वजाः युद्धे उद्यताः स्युः, तदा अस्माकं शस्त्राणि विजयं प्राप्नुवन्तु। अस्माकं वीराः सदा श्रेष्ठाः अग्रणीश्च भवन्तु। हे देवाः, युद्धे संकटे च अस्मान् रक्षत।)

एषः श्लोकः राष्ट्रस्य सेनायाश्च कृते विजयस्य वीरतायाः ईश्वरकृपायाश्च कामनां करोति। अस्मिन् सैनिकानां शौर्यं पराक्रमं राष्ट्ररक्षणार्थं तेषां अदम्यसंकल्पश्च स्पष्टतया प्रदर्श्यते।

---------------

हिन्दुस्थान समाचार