Enter your Email Address to subscribe to our newsletters


प्रयागराजः, 15 जनवरीमासः (हि.स.)।
माघमेलके द्वितीयस्नानपर्वणि मकरसंक्रान्त्यां संगमे आस्थास्नानं कर्तुं श्रद्धालूनां महदागमनं दृश्यते। प्रातः अष्टवादनपर्यन्तं एकविंशतिलक्षाः श्रद्धालवः आस्थास्नानं कृतवन्तः।
सुरक्षाव्यवस्था दृढतया विन्यस्ता अस्ति। सर्वेषु घाटेषु सीसीटीवीदर्शकयन्त्रैः तथा कृत्रिमबुद्ध्या निरन्तरं पर्यवेक्षणं क्रियते।
माघमेलापुलीसाधीक्षकः नीरजकुमारपाण्डेयः अवदत् यत् प्रभृतिप्रातःकाले एव श्रद्धालूनां जनसागरः संगमक्षेत्रं प्रति प्रवाहितः, तथा च प्रातः अष्टवादनपर्यन्तं एकविंशतिलक्षाः श्रद्धालवः आस्थास्नानं कृतवन्तः। श्रद्धालूनां सुविधा, सुरक्षा तथा माघमेलस्य सुव्यवस्थितसञ्चालनार्थं प्रशासनं पूर्णतया सज्जम् आसीत्। सर्वे वरिष्ठाधिकारी बुधवासररात्रेः एव मेलाक्षेत्रे उपस्थिताः सन्ति।
अस्मिन्नेव समये अपरपुलीसमहानिदेशकः ज्योतिनारायणः, पुलीसमहानिरीक्षकः अजयमिश्रः, मण्डलायुक्ता श्रीमती सौम्याअग्रवालः, प्रयागराजपुलीसआयुक्तः जोगेन्द्रकुमारः, अपरपुलीसआयुक्तः डॉ अजयपालशर्मा, जिलाधिकारी मनीषकुमारवर्मा, मेलाधिकारी ऋषिराजः तथा मेलापुलीसाधीक्षकः नीरजपाण्डेयः आवश्यकनिर्देशान् ददाति स्म।
---------------
हिन्दुस्थान समाचार