Enter your Email Address to subscribe to our newsletters

नागपुरम्, 15 जनवरीमासः (हि.स.) राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः डॉ॰ मोहनभागवतः अवदत् यत् मतदानकाले सर्वेषां प्रत्याशिनां नाकरणं (नोटा) कर्तुं न युक्तम्, अपि तु उपलब्धेषु विकल्पेषु योग्यतमस्य प्रत्याशिनः चयनमेव अधिकं समीचीनम् अस्ति।
महाराष्ट्रे स्थानीयनिकायनिर्वाचनाय गुरुवासरे मतदानं प्रवर्तते। डॉ॰ मोहनभागवतश्च राष्ट्रीयस्वयंसेवकसंघस्य पूर्वसरकार्यवाहः सुरेश उपाख्यः ‘भैय्याजी’ जोशीश्च गुरुवासरे नागपुरनगरे महालस्थिते नाइट् हाईस्कूलनामक मतदानकेन्द्रे मतदानं कृतवन्तौ। मतदानार्थं आगतजनानां मध्ये एतौ उभौ प्रथमौ आसताम्।
मतदानानन्तरं डॉ॰ भागवतः अवदत् यत् ‘नोटा’ इत्यस्य प्रयोगः सर्वेषां प्रत्याशिनां नाकरणसमानः अस्ति, एषा च लोकतन्त्रस्य अतिनिकृष्टा अवस्था मन्यते। अनेन वास्तवतः अवाञ्छिताः प्रत्याशिनः अप्रत्यक्षतया लाभं प्राप्नुवन्ति। अतः उपलब्धेषु प्रत्याशिषु योग्यस्य श्रेष्ठस्य च प्रत्याशिनः चयनं कर्तव्यम्।
सः अपि अवदत् यत् लोकतान्त्रिकव्यवस्थायां मतदानं अत्यन्तं महत्त्वपूर्णं वर्तते, एतच्च प्रत्येकस्य नागरिकस्य कर्तव्यं भवति। जनहितं दृष्ट्वा मतदानं करणीयम्। अराजकता इति राज्ञः अथवा नेतृत्वस्य अभावस्थितिः उच्यते, या समाजाय घातका भवति।
महाभारतस्य उदाहरणं दत्त्वा सः उक्तवान् यत् तत्रापि सम्यक् नेतृत्वचयनस्य महत्त्वं स्पष्टतया प्रतिपादितम् अस्ति। डॉ॰ भागवतः अपि अवदत् यत् निर्वाचनायोगेन मतदानविषये निरन्तरं जनजागरूकताअभियानानि चाल्यन्ते, तेषां प्रभावः शनैः शनैः दृश्यते। सः पुनः एकवारं ‘नोटा न, किन्तु उपलब्धविकल्पेषु सर्वश्रेष्ठस्य चयनम्’ इति आह्वानं कृतवान्।----------------------
हिन्दुस्थान समाचार