Enter your Email Address to subscribe to our newsletters

उपराष्ट्रपतिः काेयंबटूरे एकस्मिन् निजीचिकित्सालये न्यूरोलॉजी अथ ओपीडी सेवा इत्यनयोः नूतन भवनस्य कृतवान् उद्घाटनम्
कोयंबटूरम्, 15 जनवरीमासः (हि.स.)।
उपराष्ट्रपतिः सीपी राधाकृष्णन् अवदत् यत् कार्यसम्बन्धेन उत्पन्नः मानसिकः तनावः तन्त्रिकातन्त्रं प्रभावितं करोति इति चिकित्सकैः सूचितम्।
कोयंबटूर् नगरे सित्रा इति क्षेत्रे स्थिते एकस्मिन् निजी चिकित्सालयपरिसरे तन्त्रिकाविज्ञानोपचारस्य तथा ओपीडी सेवायाः कृते नवनिर्मितस्य भवनस्य उद्घाटनसमारोहे स्नातकोत्तरविभागस्य शुभारम्भसमये च उपराष्ट्रपतिः सीपी राधाकृष्णनः उपस्थितान् सम्बोधितवान्। नवनिर्मितं भवनं उद्घाट्य सः चिकित्सालयस्य अत्याधुनिकसुविधानां निरीक्षणमपि कृतवान्।
अस्मिन् अवसरे उपराष्ट्रपतिः अवदत् यत् “थाई जन्मे तो रास्ता खुले” इति लोकोक्तेः अनुरूपेण अस्मिन् थाई पर्वणि दिवसे अस्मिन् चिकित्सालये तन्त्रिकाविज्ञानोपचारस्य कृते नूतनभवनस्य उद्घाटनं चिकित्साक्षेत्रे नवक्रान्तिरूपेण जातम्। सः अवदत् यत् नल्ला पलानीसामी नामकः व्यक्तिः साधारणे ग्रामे जन्मित्वा अमेरिकादेशे चिकित्साशिक्षां समाप्य द्विशतशय्याभिः सह अस्य चिकित्सालयस्य आरम्भं कृतवान्। अद्य अस्मिन् चिकित्सालये द्विसहस्राधिकशय्याः सन्ति। अमेरिकादेशसहितं विश्वस्य विविधेषु देशेषु चिकित्साक्षेत्रे प्रयुज्यमानाः अत्याधुनिकाः तकनीकाः अत्र स्वीक्रियन्ते। अपि च मानवमस्तिष्के वसाजमावस्य परीक्षणोपचारार्थं पञ्चाशत्कोटिरूप्यकव्ययेन पीईटी स्कैन यन्त्रं चिकित्सालये स्थापयिष्यते।
सः अग्रे अवदत् यत् विश्वस्वास्थ्यसङ्गठनस्य अनुसारं विश्वस्य चत्वारिंशत्प्रतिशतं जनसंख्यायाः काचित् न काचित् तन्त्रिकासम्बद्धा समस्या अस्ति। अतः तन्त्रिकाविज्ञानोपचारे विश्वस्तरीयपरीक्षणोपचारपद्धतीनां आवश्यकता वर्तते। भविष्ये तन्त्रिकासम्बद्धसमस्याभिः पीडितानां रोगिणां संख्या वर्धिष्यते इति सम्भावना अस्ति। चिकित्सकैः अपि उक्तं यत् कार्यजनितः मानसिकः तनावः तन्त्रिकातन्त्रं प्रभावितं करोति।
सः अवदत् यत् जनानां स्वस्थजीवनप्रदानार्थं निजी तथा सरकारी चिकित्सालययोः प्रभावीकार्यकरणं अत्यावश्यकम्। निर्धनकल्याणे संवेदनशीलः प्रधानमन्त्री मोदी स्वास्थ्यक्षेत्रे अनेकानि महत्त्वपूर्णानि कदमाः गृहीतवान्। 2014 वर्षात् पूर्वं यत्र स्वास्थ्यक्षेत्रस्य बजटं सप्तत्रिंशत्सहस्रकोटिरूप्यकं आसीत् तत्र 2025–26 वर्षे तत् अष्टनवतिसहस्रकोटिरूप्यकं कृतम्। सः अवदत् यत् केन्द्रसरकारस्य आयुष्मान् भारतयोजनायाः अन्तर्गतं पञ्चाशत्कोटिजनाः निःशुल्कस्वास्थ्यबीमायाः लाभं प्राप्नुवन्ति। देशस्य सर्वेषु ग्रामीणप्रदेशेषु अर्धलक्षाधिकानि प्राथमिकस्वास्थ्यकेन्द्राणि स्थापिता सन्ति यत्र मानसिकस्वास्थ्यं मधुमेहः उच्चरक्तचापः इत्यादीनां रोगाणां प्रारम्भिकस्तरे उपचारः क्रियते।
सीपी राधाकृष्णनः अवदत् यत् चिकित्सकानां आवश्यकतां पूरयितुं केन्द्रसरकारः निरन्तरं प्रयत्नं करोति। 2014 वर्षात् आरभ्य चिकित्साशिक्षायां आसनसंख्या वर्धिता अस्ति। 2014 वर्षात् पूर्वं यत्र स्नातकोत्तरचिकित्सासु आसनानि केवलं षट्त्रिंशत्सहस्राणि आसन् तत्र अद्य सप्ततिसहस्राधिकानि आसनानि उपलब्धानि सन्ति। प्रत्येकस्मिन् जिल्लायाम् एकं चिकित्सामहाविद्यालयं स्थापयितुम् उद्दिश्य प्रधानमन्त्री मोदीः कार्यं करोति।
अस्मिन् कार्यक्रमे एआईएडीएमके दलस्य पूर्वमन्त्री एसपी वेलुमणिः करुप्पण्णनः च सहिताः अनेकाः राजनीतिकाः व्यक्तयः उद्योगजगतः प्रतिनिधयश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार