Enter your Email Address to subscribe to our newsletters

मुरादाबादम्, 15 जनवरीमासः (हि. स.)।
मुरादाबादजनपदस्य कुन्दरकीविकासखण्डे स्थितस्य कम्पोजिटविद्यालयस्य कलालखेड़ानाम्नः सहायकाध्यापकः अमिततोमरः “शिक्षक आइकॉन अवार्ड” इति सम्माननेन सम्मानितः अभवत्। सः एषः पुरस्कारः गतदिने उत्तराखण्डराज्यस्य रूड़कीनगर्यां आयोजिते पञ्चमे अखिलभारतीयशैक्षिकविमर्शे शिक्षकसम्मानसमारोहे २०२६ इत्यस्मिन् अवसरें प्रदत्तः।
शैक्षिकनवाचारक्षेत्रे योगविषये च उत्कृष्टकार्यं कृत्वा मूल्याधारितशिक्षायाः संवर्धनं तथा शैक्षिकसशक्तिकरणस्य उद्देश्यान् केन्द्रे स्थापयित्वा कार्यक्रमस्य मुख्यातिथिना उत्तरप्रदेशसरकारस्य पूर्वमन्त्रिणा श्रावस्तीदद्दनमिश्रनाम्ना तस्मै एषः पुरस्कारः प्रदत्तः।
सहायकाध्यापकः अमिततोमरः अवदत् यत् अस्मिन् कार्यक्रमे अखिलभारतीयस्तरे १७५ अध्यापकाः “टीचर्स आइकन”, “शिक्षा श्री” तथा “आइडियल टीचर्स अवार्ड” इत्यादिभिः पुरस्कारैः सम्मानिताः।
---------------------
हिन्दुस्थान समाचार