Enter your Email Address to subscribe to our newsletters

वाराणसी, 15 जनवरीमासः (हि.स.)।
वाराणस्यां दुर्गाकुण्डे स्थितेन दुर्गेश सपोर्टिंग क्लबेन मकरसंक्रान्तिपर्वणि आयोजिते खिचडीवितरणकार्यक्रमे दक्षिणीविधानसभा क्षेत्रस्य विधायकः डॉ नीलकण्ठ तिवारी काशीवासिभ्यः कृशरान्नं वितरितवान्।
विधायकः डॉ नीलकण्ठ तिवारी अवदत् यत् मकरसंक्रान्त्यवसरे खिचड्याः विशेषं महत्वं वर्तते। खिचड्यां संमिलिता उडददालः तण्डुलाः घृतं च परस्परस्य स्नेहभावनां सूचयन्ति। मकरसंक्रान्तेः अस्मिन् शुभे अवसरे क्षेत्रस्य मम परिवारस्य सर्वेभ्यः सदस्येभ्यः मम हृदयपूर्वकाः शुभाशयाः सन्ति। सर्वे तिलगुडं भक्षयन्तु खिचडीं भक्षयन्तु काश्याः परम्परागतस्य आकाशे उड्डीयमानस्य पतङ्गक्रीडायाः च पूर्णं आनन्दम् अनुभवन्तु।
--------------
हिन्दुस्थान समाचार