Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 15 जनवरीमासः (हि.स.)।
उत्तराखण्डराज्यस्य कुमाऊँमण्डले स्थिते अल्मोडाजनपदे जागेश्वरधाममन्दिरस्य विशिष्टा कीर्तिः वर्तते। अत्र पूजा-परम्पराः अपि अत्यन्तं वैशिष्ट्यपूर्णाः सन्ति। मकरसंक्रान्तिपर्वणि अद्य भगवान् शिवः घृतगुहायां प्रतिष्ठापितः।
मकरसंक्रान्त्यवसरे अल्मोडानगरे प्रसिद्धे जागेश्वरधामे भगवान् भोलेनाथः शुद्धदेशीयगवां निर्मितेन द्विशतैकपञ्चाशत्किलोग्रामपरिमितेन घृतेन कृतायां घृतगुहायां समाच्छादितः। मन्दिरस्य मुख्यपुजारी महामण्डलेश्वरः पण्डितः हेमन्तभट्टः अन्यैः पुजारिभिः सह मन्त्रौच्चारणं कृत्वा घृतगुहां निर्मितवान्, विशेषपूजाअनुष्ठानेन सह च भगवान् भोलेनाथं तस्यां घृतगुहायां उपवेशितवान्।
भगवान् भोलेनाथः एकमासपर्यन्तं तस्यामेव घृतगुहायां तपस्यारतः भविष्यति। वर्षाणाम् अनवरतं प्रवहन्त्या पौराणिकपरम्परया घृतगुहानिर्माणार्थं गवां घृतं जलसह मिश्र्य द्रवीकृतं क्रियते, ततः शीतलीकृत्य गुहासदृशी विशेषाकृतिः निर्मीयते। विशेषपूजाअर्चनानन्तरं भगवान् घृतगुहया आच्छाद्यते।
एकमासानन्तरं सा घृतगुहा प्रसादरूपेण वितर्यते। जनविश्वासः अस्ति यत् अस्याः सेवनात् अनेकानाम् असाध्यानां रोगाणां निवारणं भवति। मन्दिरस्य मुख्यपुजारी महामण्डलेश्वरः पण्डितः हेमन्तभट्टः अवदत् यत् मकरसंक्रान्त्यां भगवान् भोलेनाथं घृतगुहया आच्छादयितुं या परम्परा, सा पौराणिककालात् एव अनुवर्तते।
हिन्दुस्थान समाचार