Enter your Email Address to subscribe to our newsletters

मुम्बईनगरम्, १५ जनवरीमासः (हि.स.)। महाराष्ट्रे गुरुवासरे २९ महानगर-पालिकानां निर्वाचनार्थं मतदानं प्रवर्तते। प्रातः ७.३० वादनात् एव मतदान-केन्द्रेषु मतदातॄणां दीर्घाः पङ्क्तयः दृष्टाः। अस्मिन् लोकतन्त्रस्य महापर्वणि सामान्य-जनैः सह चलचित्र-जगतः अनेकाः प्रसिद्धाः व्यक्तयः अपि उत्साहपूर्वक सहभागं कृत्वा स्व-मताधिकारस्य प्रयोगं कुर्वन्ति।
नाना-पाटेकरः मतदानाय जनान् आह्वयतिअभिनेता नाना-पाटेकरः बीएमसी-निर्वाचने मतं दत्त्वा जनान् मतदानाय आह्वयत्। सः अवदत् –“अहं मतदानाय तिस्र: त: अधिकाः होरा: यात्रां कृत्वा आगतः अस्मि, यतः लोकतन्त्रे एतत् अत्यावश्यकम् अस्ति। अधुना शीघ्रं प्रत्यागच्छामि। सर्वे जनाः बहिः आगत्य स्व-मताधिकारस्य प्रयोगं कुर्वन्तु।”
एते तारकाः अपि मतं दत्तवन्तः
अभिनेत्री मथुरा-लोकसभा-सदस्या हेमा-मालिनी अपि बीएमसी-निर्वाचने मतदानार्थम् आगता। तदनन्तरम् अभिनेता आमिर-खानेन कुटुम्बेन सह मतदान-केन्द्रे आगमनं कृतम्। दृश्यमाध्यमेषु आमिर-खानः, तस्य पूर्व-पत्न्यौ किरण-रावः, रीना-दत्ताः, पुत्री ईरा-खानः, पुत्रः जुनैद-खानः च दृष्टाः।तथा च अभिनेत्र्यः तमन्ना-भाटिया, अभिनेता सुनील-शेट्टी, जॉन-अब्राहमः, दिव्या-दत्ताः च मतदानं कृत्वा लोकतन्त्रे स्व-कर्तव्यपालनं अकुर्वन्।
जनानां मध्ये उत्साहः वर्धितः
चलचित्र-तारकाणां एषा सक्रिय-सहभागिता मतदातॄणां मध्ये उत्साहं वर्धयति तथा अधिकाधिक-जनान् मतदानाय प्रेरयति।
हिन्दुस्थान समाचार / अंशु गुप्ता