Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 15 जनवरीमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरकार्यवाहः दत्तात्रेयः होसबालेः गुरुवासरे अवदत् यत् ‘मंत्रविप्लव’ इव विचारोत्तेजकग्रन्थानां रचना समाजाय राष्ट्राय च शुभसूचकं भवति। एते ग्रन्थाः अस्मान् स्मारयन्ति यत् विचारशक्तिरेव राष्ट्रस्य वास्तविकं बलम् अस्ति, तथा यदि विचाराः शुद्धाः सशक्ताश्च स्युः तर्हि समाजः राष्ट्रं च उभयमपि सुरक्षितं भवति।
होसबालेः भारतमण्डपमे आयोजिते विश्वपुस्तकमेले ‘मंत्रविप्लव’ नामकस्य ग्रन्थस्य लोकार्पणं कृतवान्। वरिष्ठपत्रकारेण पाञ्चजन्यस्य पूर्वसम्पादकेन तरुणविजयेन लिखितः अयं ग्रन्थः प्रभातप्रकाशनद्वारा प्रकाशितः अस्ति। लोकार्पणसमारोहे ग्रन्थकर्त्ता तरुणविजयः, भारतीयजनतापक्षस्य प्रवक्ता सांसदश्च डॉ सुधांशुः त्रिवेदीः तथा प्रभातप्रकाशनस्य अध्यक्षः प्रभातकुमारः इत्यादयः अनेकाः विशिष्टजनाः उपस्थिताः आसन्।
सरकार्यवाहः होसबालेः अवदत् यत् विचाराणां भ्रष्टता राष्ट्राय अत्यन्तं घातका भवति। सः महात्मनः विदुरस्य वचनं उद्धृत्य अवदत् “विषस्य एका बिन्दुः यस्मै दीयते तस्माद् केवलं स एव म्रियते। विषयुक्तः बाणः यस्मिन् पतति तेनापि केवलं स एव हन्यते। किन्तु यदि विचाराः एव भ्रष्टाः भवेयुः तथा राज्ञः प्रजायाश्च बुद्धौ सम्भ्रमः जायते, तदा हे धृतराष्ट्र, मंत्रविप्लवस्य अवस्था उत्पद्यते, यस्य परिणामे राजा प्रजा राष्ट्रं च त्रयमपि नश्यति।”
सः अवदत् यत् समाजस्य बुद्धौ विचारधारायां च आक्रमणः सम्पूर्णं राष्ट्रं प्रभावितं करोति। अस्माकं देशे अतीते केवलं भूमौ उद्योगेषु च न आक्रमणाः अभवन्, अपि तु अस्माकं बुद्धौ विचारेषु च आक्रमणं कृतम्। असत्यं सत्यरूपेण प्रस्तुतं कृतम् तथा आर्याणां विषये मिथ्याधारणाः प्रचारिताः।
डॉ सुधांशुः त्रिवेदीः अवदत् यत् भारतीयसंस्कृतिः विश्वस्य विशालतमां प्राचीनतमां च संस्कृतिः अस्ति, या न केवलं स्वनागरिकान् अपि तु विश्वभरस्य वैज्ञानिकान् शोधकर्तॄन् च प्रेरितवती अस्ति। विज्ञानगणितदर्शनाध्यात्मादिक्षेत्रेषु भारतीयसंस्कृतेः योगदानं अद्यापि विश्वं मार्गदर्शयति।
डॉ त्रिवेदी प्रधानमन्त्रिणः नरेन्द्रमोदिनो नेतृत्वे सम्पन्नमानस्य सांस्कृतिकपुनर्जागरणस्य उल्लेखं कृत्वा अवदत् यत् अयोध्यायां राममन्दिरनिर्माणानन्तरं सोमनाथे स्वाभिमानपर्व आचर्यते, यत् भारतीयसंस्कृतेः गौरवपूर्णपरम्परायाः प्रतीकं अस्ति।
हिन्दुस्थान समाचार