Enter your Email Address to subscribe to our newsletters


गोरखपुरनगरम्, १६ जनवरीमासः (हि.स.)।मकर–संक्रान्ति–कृशर–महापर्वणि श्रद्धालूनां सुरक्षा–व्यवस्थां, सुविधा–प्रबन्धनं तथा निरीक्षणं च कृत्वा द्विदिनं व्यस्तः स्थित्वा मुख्यमन्त्री योगी–आदित्यनाथः शुक्रवासरे जनता–दर्शन–कार्यक्रमम् आयोजितवान्। गोरखनाथ–मन्दिरे मुख्यमन्त्री जनैः सह संवादं कृत्वा तेषां समस्याः श्रुतवान् तथा शीघ्र–निस्तारणाय अधिकारिणः निर्देशितवान्। भूमि–पत्र–आवंटनसम्बद्धेषु कतिपयेषु अभियोगेषु सः गम्भीरः अभवत् तथा आदेशं दत्तवान् यत् यस्मिन् ग्रामे रूप्यक–ग्रहणेन भूमिपत्र–आवंटनम् कृतम् इति अभियोग: अस्ति, तत्र तत्क्षणं निरीक्षणं कृत्वा दोषिणां विरुद्धं कठोर–कार्यवाही क्रियताम्।
गोरखनाथ–मन्दिरस्य महन्त–दिग्विजयनाथ–स्मृति–भवन–सभागारे शुक्रवासरप्रातः आयोजिते जनता–दर्शने मुख्यमन्त्री योगी–आदित्यनाथः प्रायः द्विशतं जनानाम् समस्याः श्रुतवान्। सः स्वयमेव जनानां समीपं गत्वा तेषां दुःख–दुर्भाग्यानि अवगच्छन् प्रार्थना–पत्राणि सम्बन्धित–अधिकारिभ्यः प्रेषयित्वा त्वरित–सन्तोषजनक–निस्तारणस्य आदेशं दत्तवान्।
मुख्यमन्त्री जनान् आश्वासितवान् यत्सर्वेषां पीडितानां समस्यासमाधाने सर्वकारः प्रतिबद्धः अस्ति।जनता–दर्शने एका महिला ग्रामे निर्धनानां भूमिपट्ट–वितरणे अनियमितताम् अनिवेदयत्। तदा मुख्यमन्त्री अवदत् —“यत्र रूप्यक–ग्रहणेन भूमिपत्रं दत्तम् अस्ति, तत्र दोषिणाम् उत्तरदायित्वं निश्चित्य कठोर–दण्डात्मक–कार्रवाही भवतु।”
अपराधसम्बद्धेषु अभियोगेषु मुख्यमन्त्री आरक्षी–अधिकारिणः अपराधिनां विरुद्धं कठोर–कार्यवाही कर्तुं निर्देशितवान्। प्रशासनिक–अधिकारिणः अपि आदेशिताः यत् सर्वे पात्र–व्यक्तयः शासनस्य कल्याणकारी–योजनानां लाभं लभन्ताम्।
एवमेव एका महिला आर्थिक–दुर्बलतया कन्याया: विवाह–चिन्तां व्यक्तवती। मुख्यमन्त्री आदेशं दत्तवान् यत् तस्याः कन्याया: विवाहः मुख्यमन्त्री–सामूहिक–विवाह–योजनायाम् क्रियताम्। गम्भीर–रोगोपचाराय आर्थिक–सहायतां याचमानान् जनान् प्रति मुख्यमन्त्री अवदत् — “धनाभावेन कस्यापि उपचारः न अवरुद्धः भविष्यति।” अधिकारिणः निर्देशिताः यत् आवश्यक–जनानाम् उच्चस्तरीय–उपचारस्य अनुमान–व्यय–पत्रम् (Estimate) शीघ्रं सिद्धीकृत्य प्रदातव्यं, तदनन्तरं सर्वकारः तत्क्षणमेव वित्तीय–सहायतां करिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani