मुख्यमंत्रिणो नीतीश कुमारस्य समृद्धि यात्रा अद्यारभ्य शुभारब्धा, पश्चिम चंपारणं प्राप्नोत् मुख्यमंत्री
पटना, 16 जनवरीमासः (हि.स.)। मुख्यमन्त्रिणो नीतिशकुमारस्य महत्वाकाङ्क्षिणी समृद्धियात्रा अद्य आरभ्यते। यात्रायाः प्रथमचरणे मुख्यमन्त्री नवसु जिलासु भ्रमणं करिष्यति। यात्रायाः प्रथमदिने सः पश्चिमचम्पारणजिलां गमिष्यति, यत्र विकाससम्बद्धानां जनकल्याण
मुख्यमंत्रिणो नीतीश कुमारस्य समृद्धि यात्रा अद्यारभ्य शुभारब्धा, पश्चिम चंपारणं प्राप्नोत् मुख्यमंत्री


पटना, 16 जनवरीमासः (हि.स.)।

मुख्यमन्त्रिणो नीतिशकुमारस्य महत्वाकाङ्क्षिणी समृद्धियात्रा अद्य आरभ्यते। यात्रायाः प्रथमचरणे मुख्यमन्त्री नवसु जिलासु भ्रमणं करिष्यति। यात्रायाः प्रथमदिने सः पश्चिमचम्पारणजिलां गमिष्यति, यत्र विकाससम्बद्धानां जनकल्याणसम्बद्धानां च अनेकेषां महत्त्वपूर्णयोजनानां शुभारम्भं करिष्यति।

पश्चिमचम्पारणजिलायां स्वभ्रमणकाले मुख्यमन्त्री १५३ कोटिरूप्यकव्ययेन सिद्धानां १२५ योजनानां शिलान्यासं करिष्यति, तथा च २९ कोटिरूप्यकव्ययेन पूर्णानां ३६ योजनानां उद्घाटनं अपि करिष्यति। तदनन्तरं जिलायां सञ्चालितानां विविधविकासात्मककल्याणकारीयोजनानां समीक्षां कृत्वा अधिकारिभ्यः आवश्यकनिर्देशान् दास्यति।

अस्मिन् अवसरः मुख्यमन्त्री किसानमेला सह कृषियन्त्रीकरणप्रदर्शनीम् अपि उद्घाटयिष्यति, येन कृषकाः आधुनिककृषितकनीकानां यन्त्राणां च ज्ञानं प्राप्स्यन्ति। अतिरिक्ततया सः जिल्लायाः औद्योगिकक्षेत्रं कुमारबागं भ्रमित्वा निरीक्षणं करिष्यति तथा औद्योगिकविकासस्य प्रगतिं सम्यक् अवलोकयिष्यति। कार्यक्रमस्य अन्ते मुख्यमन्त्री जनसंवादकार्यक्रमे सहभागं करिष्यति।

अस्मिन् अवसरे मुख्यमन्त्रिणा सह विशिष्टातिथिरूपेण बिहारप्रदेशस्य उपमुख्यमन्त्री सम्राटचौधरीः विजयकुमारसिंहश्च अपि उपस्थितौ भविष्यतः। समृद्धियात्रायाः माध्यमेन राज्यसरकारस्य उद्देश्यं भूमिस्तरे विकासकार्याणां समीक्षां कृत्वा तान् अधिकतया प्रभावीकरणं तथा सामान्यजनानां प्रति योजनानां प्रत्यक्षलाभप्रदानं च अस्ति।

प्रथमचरणे नवसु जिल्लासु समृद्धियात्रा

समृद्धियात्रायाः प्रथमचरणे, प्रथमदिने पश्चिमचम्पारणानन्तरं मुख्यमन्त्री नीतिशकुमारः

१७ जनवरी दिने पूर्वीचम्पारणजिलां,

१९ जनवरी दिने सीतामढ़ीशिवहरजिल्लयोः,

२० जनवरी दिने गोपालगंजजिलां,

२१ जनवरी दिने सारणजिलां,

२२ जनवरी दिने सिवानजिलां,

२३ जनवरी दिने मुजफ्फरपुरजिलां,

२४ जनवरी दिने वैशालीजिलां

भ्रमणं करिष्यति।

---------------

हिन्दुस्थान समाचार