Enter your Email Address to subscribe to our newsletters

जयपुरम्, 16 जनवरीमासः (हि.स.)।
भारत नवीकरणीय ऊर्जा प्रदर्शनी का उद्घाटन अद्य भवति। राजस्थान सोलर संघस्य आयोजनात् मानसरोवर स्थिते वीटी क्रीडाङ्गणे एषा प्रदर्शनी १६ तः १८ जनवरी पर्यन्तं आयोजिता भविष्यति। अस्याः प्रदर्शिन्याः सौर ऊर्जा, पवन ऊर्जा, बैटरी संचयन, हरित हाइड्रोजन तथा विद्युत वाहनेषु केन्द्रितः विशेषः भवति।
उद्घाटन समारोहे ऊर्जा मन्त्री हीरालाल नागर, जनजातीय क्षेत्रीय विकास मन्त्री बाबूलाल खराडी, प्रमुख सचिव ऊर्जा अजिताभ शर्मा, तथा आरआरईसीएल संस्थायाः अध्यक्ष प्रबन्ध निदेशकः रोहित गुप्ता च उपस्थिताः भविष्यन्ति।
अस्यां प्रदर्शिन्यां सामान्य उपभोक्तारः सौर पटलानि, तेषां अवयवान्, स्थापनेन सह सेवाः, तथा शासनस्य अनुदान योजनानां विषये विस्तृतां सूचनां प्राप्तुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार