Enter your Email Address to subscribe to our newsletters

धनबादजनपद:, १६ जनवरीमासः (हि.स.)। बिनोद–बिहारी–महतो–कोयलाञ्चल–विश्वविद्यालयस्य (बीबीएमकेयू) त्रिदिवसीयः षष्ठः अन्तर्महाविद्यालयीय–युव–महोत्सवस्य “अन्तर्नादः” इत्यस्य शुक्रवासरे शुभारम्भ: अभवत्। न्यू–टाउन–हॉल इत्यत्र आयोजिते मुख्य–समारोहे पद्मश्री–मुकुन्द–नायकः मुख्यातिथित्वेन अन्तर्जाल–माध्यमेन संयुक्तः अभवत्। “रचनात्मकता” तथा “समरसता” इति विषययोः आधारितस्य युव–महोत्सवस्य “अन्तर्नादः” शङ्खनादः सांस्कृतिक–प्रदर्शिनी-द्वारा अभवत्। तां प्रदर्शिनीं बीबीएमकेयू–कुलपतिः रामकुमार–सिंहः हरित–ध्वजं दर्शयित्वा जिला–परिषद्–क्षेत्रात् प्रेषितवान्।
अस्यां प्रदर्शिन्यां धनबाद–बोकारो–जनपदयोः महाविद्यालयानां दलानि विविध–सामाजिक–वर्तमान–विषयेषु आधारिताः प्रदर्शिन्य: प्रस्तुतवन्तः।
गुरुनानक–महाविद्यालयस्य दीपशिखा–दासः स्व–दलेन सह दुर्गायाः नव–रूपाणि धृत्वा समाजे नारी–शक्तेः सन्देशं प्रदत्तवती। दीपशिखा–दासः अवदत् यत् अस्याः प्रस्तुतेः माध्यमेन समाजं प्रति एतं सन्देशं दातुम् इच्छति— अद्यतन–नारी सर्वेषु क्षेत्रेषु निपुणा अस्ति तथा प्रत्येकाम् आपदं दृढतया समक्षी कर्तुं समर्था अस्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani