Enter your Email Address to subscribe to our newsletters

रांची, 16 जनवरीमासः (हि.स.)।
अस्य वर्षे वसन्तपञ्चमी पर्व जनवरी २३ तमे दिने भविष्यति। तस्मिन्नेव दिने विद्यादायिनी भगवती सरस्वती देवी विशेषतया आराध्यते। अस्मिन् दिने लक्ष्मीनारायणयोगः, बुधादित्ययोगः, परिघयोगश्च समुत्पद्यन्ते। अहोरात्रं बुधसूर्यशुक्राणां युत्या गुरुदीक्षा विद्यारम्भयोः अत्यन्तं शुभो मुहूर्तः भवति।
जनवरी २३ तमे दिने प्रातःकालात् सायंकालपर्यन्तं मातुः प्रतिष्ठा पूजनं च विधीयते। पण्डित मनोज पाण्डेयः शुक्रवासरे अवदत् यत् भगवत्या सरस्वत्याः पूजायै एते त्रयः योगाः अत्यन्तं शुभाः दुर्लभाश्च फलप्रदाश्च भवन्ति। एषु योगेषु कृतं प्रत्येकं कर्म सिद्धिं प्राप्नोति। विद्यार्थिनां विद्यासम्बद्धानां च कृते वसन्तपञ्चमी पर्व विशेषमहत्त्वं वहति।
अस्मिन् दिने विद्यादेवी भगवती सरस्वती विशेषरूपेण पूज्यते। वसन्तपञ्चमी पर्व माघमासस्य शुक्लपक्षस्य पञ्चमी तिथौ आचर्यते। अस्यां एव तिथौ विद्या सद्गुणप्रदायिन्याः भगवत्या सरस्वत्याः जन्म अभवत्। अतः वसन्तपञ्चम्यां दिने तस्याः विशेषपूजार्चना क्रियते। तस्मिन् दिने देवी श्वेतपीतवस्त्रैः पीतपुष्पैः रोलीधूपदीपैश्च पूज्यते।
अस्मिन् शुभसंयोगे विद्यारम्भः, नवीनवस्तुक्रयः, वाहनक्रयश्च अत्यन्तं शुभं मन्यते। पुरोहितेन उक्तं यत् ऋषिकेशपञ्चाङ्गानुसारं वसन्तपञ्चमी जनवरी २२ तमे दिने रात्रौ ०१.१६ वादने आरभ्यते तथा जनवरी २३ तमे दिने रात्रौ १२.०८ वादने समाप्ता भविष्यति। उदयातिथेः कारणेन पर्व जनवरी २३ तमे दिने एव आचर्यते। प्रातःकालात् सायंकालपर्यन्तं मातुः पूजा विधीयते। पूजायाः शुभः कालः प्रातः ०९.२७ वादनात् द्विपराह्णे ०२.३४ वादनपर्यन्तं अस्ति।
---------------
हिन्दुस्थान समाचार