भोपाल: प्रदेशस्य कर्मचारिणां लंबितयाचनाम् आधृत्य अद्य मंत्रालयस्य समक्षं विरोध प्रदर्शनम्
भोपालम्, 16 जनवरीमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालनगरे अद्य शुक्रवासरे मन्त्रालयस्य (वल्लभभवनस्य) पुरतः तृतीयचतुर्थश्रेण्योः शासकीयकर्मचारिणां महत् प्रदर्शनं भविष्यति। कर्मचारीसंघानां संयुक्तमोर्चस्य आह्वानेन एषः आन्दोलनः आयोजितः, यस्मिन्
सांकेतिक फाेटाे


भोपालम्, 16 जनवरीमासः (हि.स.)।

मध्यप्रदेशस्य राजधानी भोपालनगरे अद्य शुक्रवासरे मन्त्रालयस्य (वल्लभभवनस्य) पुरतः तृतीयचतुर्थश्रेण्योः शासकीयकर्मचारिणां महत् प्रदर्शनं भविष्यति। कर्मचारीसंघानां संयुक्तमोर्चस्य आह्वानेन एषः आन्दोलनः आयोजितः, यस्मिन् एकादशसूत्रीयानां मागणीनां विषयेषु कर्मचारीणः एकत्रीभूय स्वस्वाधिकारान् प्रस्तौष्यन्ति।

मन्त्रालयसेवा अधिकारी कर्मचारीसंघस्य अध्यक्षः सुधीरनायकः अवदत् यत् मन्त्रालयीयकर्मचारिणां कृते चतुर्थः समयमानवेतनमानः प्रदातव्यः, मन्त्रीस्थापना तथा मन्त्रालयस्थापनायां नियोजितानां आकस्मिकतानिधिकर्मचारिणां नियमितीकरणं कर्तव्यम्, त्रिशतं प्रतिशतं महार्घताभत्ता देया, स्थायिकर्मचारिणां तथा आउटसोर्सकर्मचारिणां डाइङ्ग काडर घोषितीकरणस्य विरोधार्थं च एषः आन्दोलनः आयोजितः।

अपरं च तेन उक्तं यत् समयमानवेतनमानस्य सह उच्चपदनामप्रदानम्, मन्त्रालयीयलिपिकानां तृतीयसमयमाने तृतीयपदोन्नतेः वेतनमानप्रदानम्, पुरातनपेंशनयोजनायाः पुनर्बहाली, सप्ततिप्रतिशतात् अशीतिप्रतिशतं वेतनं दातव्यमिति आदेशस्य निरसनसम्बद्धस्य उच्चन्यायालयनिर्णयस्य कार्यान्वयनम्, तथा द्विसहस्रद्वादशवर्षे मन्त्रीस्थापनात् मन्त्रालयस्थापनां आगतानां चतुर्थश्रेणीकर्मचारिणां वेतनसंरक्षणलाभप्रदानम् इत्यादीनां समस्तानां लम्बितमागणीनां विषयेषु अद्य मध्याह्ने एकवादने अर्धे वल्लभभवनस्य क्रमाङ्क ०१ मुख्यद्वारे मन्त्रालयसेवा अधिकारी कर्मचारीसंघेन तथा मध्यप्रदेश कर्मचारिमञ्चेन संयुक्तविरोधप्रदर्शनं करिष्यते। एतस्य प्रदर्शनस्य सूचना अपि सङ्गठनतया सर्वकाराय पूर्वमेव प्रदत्ता अस्ति।

---------------

हिन्दुस्थान समाचार