मध्यप्रदेशे अद्य आरभ्य द्विदिवसीयः जनपद–स्तरीयः शैक्षिक–ओलम्पियाडः आयोजितः भवति
प्रदेशस्य सर्वेषु विकासखण्ड–मुख्यालयेषु परीक्षा भविष्यति, जन–शिक्षा–केन्द्र–स्तरीयाः द्वि–लक्षं विजेतृ–विद्यार्थिनः सहभागं करिष्यन्ति भोपालनगरम्, १६ जनवरीमासः (हि.स.)।मध्यप्रदेशस्य सर्वेषु शासकीय–प्राथमिक–माध्यमिक–विद्यालयेषु अध्ययनरतानां कक्षा २
ओलंपियाड परीक्षा (प्रतीकात्मक तस्वीर)


प्रदेशस्य सर्वेषु विकासखण्ड–मुख्यालयेषु परीक्षा भविष्यति, जन–शिक्षा–केन्द्र–स्तरीयाः द्वि–लक्षं विजेतृ–विद्यार्थिनः सहभागं करिष्यन्ति

भोपालनगरम्, १६ जनवरीमासः (हि.स.)।मध्यप्रदेशस्य सर्वेषु शासकीय–प्राथमिक–माध्यमिक–विद्यालयेषु अध्ययनरतानां कक्षा २ तः ८ पर्यन्तं विद्यार्थिनां जनपद–स्तरीयः (द्वितीय–चरणीयः) शैक्षिक–ओलम्पियाडः आयोजितुं निश्चितः अस्ति।इयं प्रतियोगिता अद्य शुक्रवासराद् आरभ्य प्रदेशस्य प्रत्येकं विकासखण्ड–मुख्यालये आयोजितः भविष्यति।

अस्मिन् द्विदिवसीये शैक्षिक–ओलम्पियाडमध्ये जन–शिक्षा–केन्द्र–स्तरस्य प्रायः द्वि–लक्षं विजेतृ–विद्यार्थिनः सहभागं करिष्यन्ति।

राज्य–शिक्षा–केन्द्रस्य संचालकः हरजिन्दर–सिंहः सूचनां दत्तवान् यत्—अस्य शैक्षिक–ओलम्पियाड-इत्यस्य अन्तर्गतं जन–शिक्षा–केन्द्र–स्तरीया परीक्षा १८ नवम्बर २०२५ तमे दिने प्रदेशस्य सर्वेषु जन–शिक्षा–केन्द्र–परीक्षा–केन्द्रेषु सम्पन्ना अभवत्। तस्य पश्चात् जन–शिक्षा–केन्द्र–स्तरीय–ओलम्पियाड-इत्यस्या: परिणामानुसारं जनपद–स्तरीय–ओलम्पियाड-इत्यस्या: कृते विद्यार्थिनां चयनं कृतम्।

सः अवदत् यत्— प्रत्येकं जन–शिक्षा–केन्द्रात् कक्षा २ एवं ३ इत्येतयोः त्रिषु विषयेषु (आङ्ग्ल–भाषा, हिन्दी–भाषा, गणितम्) प्रत्येकं विषये ४–४ अग्रगण्यविद्यार्थिनः, कक्षा ४ एवं ५ इत्येतयोः चतुर्षु विषयेषु (आङ्ग्ल–भाषा, हिन्दी–भाषा, गणितम्, पर्यावरणम्) प्रत्येकं विषये ४–४ अग्रगण्य–विद्यार्थिनः, इति प्रकारेण कक्षा २–५ पर्यन्तं प्रत्येकं जन–शिक्षा–केन्द्रात् आहत्य २८ विद्यार्थिनः चयनिताः सन्ति। तथैव कक्षा ६ तः ८ पर्यन्तंप्रत्येकं विषये सर्वाधिक–अङ्क–प्राप्तानां ६–६ विद्यार्थिनां चयनं कृत्वा प्रत्येकं जन–शिक्षा–केन्द्रात् आहत्य ३६ विद्यार्थिनःजिला–स्तरीय–ओलम्पियाडप्रतियोगितायै चयनिताः सन्ति। जन–शिक्षा–केन्द्र–स्तरीय–ओलम्पियाड-इत्यत्र सहभागीभूतानां १४ लक्ष २३ सहस्रात् अधिकानां विद्यार्थिनां मध्ये प्रायः द्वि–लक्षं विद्यार्थिनः जिला–स्तरीय–शैक्षिक–ओलम्पियाडप्रतियोगितायै चयनिताः सन्ति।

संचालकेन सूचितं यत्— जिला–स्तरीय–ओलम्पियाड–प्रतियोगिता १६ एवं १७ जनवरी मासयोः प्रदेशस्य प्रत्येकं विकासखण्ड–मुख्यालये आयोजिता भविष्यति। अस्य कृते राज्य–शिक्षा–केन्द्रेण समय–सारिणी अपि प्रकाशिताऽस्ति। समय–सारिणी अनुसारम्—कक्षा २–३ विद्यार्थिनां परीक्षा १६ जनवरीमास: प्रातः १० वादने तः अपराह्णे ३:३० वादनं यावत् कक्षा ४–५ विद्यार्थिनां परीक्षा १७ जनवरीमास: प्रातः १० वादने तः सायं ५:१५ वादनं यावत् कक्षा ६–८ विद्यार्थिनां परीक्षा१६ एवं १७ जनवरीमास: प्रातः १० वादने तः अपराह्णे ३:३० वादनं यावत्

इयं ओलम्पियाडप्रतियोगिता OMR–शीट–आधारिता अस्ति तथा प्रदेशस्य सर्वेषु विकासखण्ड–मुख्यालयेषु आयोजिता भविष्यति। चयनित–विद्यार्थिनां कृते परीक्षा–स्थलपर्यन्तं परिवहन–व्यवस्था, स्वल्पाहारः, भोजन–व्यवस्था इत्यादयः सर्वाः आवश्यक–व्यवस्थाः विद्यालय–शिक्षा–विभागेन पूर्वमेव कृताः सन्ति। ओलम्पियाड–परीक्षायाः सुचारु एवं व्यवस्थित–सञ्चालनाय राज्य–शिक्षा–केन्द्रेण प्रदेशस्य सर्वेषां जिला–उपायुक्तानां कृते पत्र–माध्यमेन आवश्यक–निर्देशाः अपि प्रेषिताः सन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani