Enter your Email Address to subscribe to our newsletters

उज्जयिनीनगरम्, १६ जनवरीमासः (हि.स.)। विश्वविख्यात–ज्योतिर्लिङ्ग–भगवतः महाकालस्य नगरी-उज्जयिन्यां आयोजिते पञ्चदिवसीय–महाकाल–महोत्सवे अद्य शुक्रवासरे सायंकाले जनजातीय–लोकनृत्यानि सांस्कृतिक–प्रस्तुतयश्च भविष्यन्ति। महोत्सवे मुम्बई–नगरस्य सुप्रसिद्धा पार्श्वगायिका सोना–महापात्रा संगीतमयं प्रस्तुतिं प्रदास्यति।
उज्जयिन्यां श्री–महाकालेश्वर–मन्दिर–प्रबन्ध–समितेः तथा संस्कृति–सञ्चालनालयस्य संयुक्त–तत्त्वावधानात् १४ तः १८ जनवरीमासपर्यन्तं “श्री–महाकाल–महोत्सवः” आयोज्यते। आयोजन–संस्थायां समाविष्टस्य वीर–भारत–न्यासस्य न्यासी–सचिवः श्रीराम–तिवारी अवदत् यत् — महोत्सवस्य तृतीय–दिवसे शुक्रवासरे श्री–महाकाल–लोके जनजातीय–लोकनृत्यानां, लोककलानां तथा संगीतमय–प्रस्तुतीनां भव्यम् आयोजनं क्रियते।
अस्मिन् आयोजने जनजातीय–संस्कृतेः समृद्धाः परम्पराः, लोकजीवनम्, आस्था–सम्बद्धाः विविधाः वर्णाः च मञ्चं लभन्ते। अस्मिन् अवसरे देशस्य विभिन्न–जनजातीनां कलाकाराः स्वस्व–पारम्परिक–वेषभूषाभिः वाद्य–यन्त्रैः सह सजीव–लोकनृत्यानि प्रदर्शयिष्यन्ति।
स: अवदत् यत् कार्यक्रमाणाम् आरम्भः सायं ७ वादनात् भविष्यति। अस्य अवसरस्य विशेष–आकर्षणं सुप्रसिद्धा गायिका सोना–महापात्राया: संगीतमप्रस्तुति: भविष्यति। प्रस्तुतौ शिव–भक्तेः, लोक–संगीतस्य तथा समकालीन–संगीतस्य संगमः द्रक्ष्यते। अद्यतन–प्रमुख–आकर्षण–प्रस्तुतयः महोत्सवस्य अन्तर्गतं विविध–प्रस्तुतीनां माध्यमेन जनजातीय–समाजस्य परम्पराः, प्रकृत्या सह सम्बद्धं जीवनम्, लोकविश्वासाः तथा सांस्कृतिक–विरासत् सजीवरूपेण प्रदर्क्ष्यन्ते। अत्र गोंड–जनजातीय–कर्म–नृत्यं उपेन्द्रसिंह–सहचरैः (सीधी), बैगा–जनजातीय–परधौनी–नृत्यं दयाराम–सहचरैः(डिण्डौरी),अहिराई–नृत्यं कमलेश–नामदेव–सहचरैः (गोटग्रामः), भारिया–जनजातीय–सैताम–नृत्यं अङ्किता–सहचरैः (छिन्दवाड़ा) प्रस्तुतं भविष्यति।
एवमेव “कला–यात्रा” कार्यक्रमस्य अन्तर्गतं अद्य मटकी–लोकनृत्यं मयूरी–डोड–सहचरैः (उज्जयिनी) प्रदर्श्यते।कला–यात्रा शास्त्री–नगरात् नीलगङ्गा–चतुष्पथं, हाट–आपणं च अतिक्रम्य महाकाल–लोकं यास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता