Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १६ जनवरीमासः (हि.स.)।वैश्विकसभ्यतानां संघर्षस्य औदार्यस्य च महागाथा–रूपेण विख्यातस्य महाभारतस्य आधारेण भारतदेशस्य प्रथमः अद्यावधि च महत्तमः सांस्कृतिक–समारोहः भोपाल–नगरे आयोजयिष्यते।
मध्यप्रदेश–शासनस्य संस्कृति–विभागस्य अन्तर्गतः वीर–भारत–न्यासः भारत–भवन–परिसरे १६ तः २४ जनवरीमासपर्यन्तं एतं समागमम् आयोजितवान् अस्ति। अस्य समागमस्य शुभारम्भः अद्य सायं ७:३० वादने मुख्यमन्त्री डा.मोहन–यादवेन कर्तुं निश्चितः अस्ति।
वीर–भारत–न्यासस्य न्यासी–सचिवः श्रीराम–तिवारी अवदत् यत्— अस्मिन् नवदिवसीये समागमे महाभारतस्य विविध–आयामाः नाटक–प्रस्तुतिभिः, नृत्य–नाट्यैः, कठपुतली–कार्यशालाभिः,लोक–शास्त्रीय–कलाप्रस्तुतिभिः, अन्ताराष्ट्रिय–चलचित्र–उत्सवेन, तथा इमर्सिव–डोम–थियेटर–माध्यमेन प्रदर्शयिष्यन्ते। एतेषां सर्वेषां माध्यमेन युद्धस्य विरुद्धं शान्तेः सन्देशः दास्यते।
अस्मिन् अवसरे नेपथ्य–प्रदर्शिनी, अस्त्र–शस्त्र–प्रदर्शिनी, चक्रव्यूह–प्रतिरूपम्, पताकाः, महाभारत–आधारित–चित्र–प्रदर्शिनी, भारतीय–कठपुतली–कला,श्रीकृष्ण–पाथेय–न्यासस्य पत्रिका, वेबसाइट् तथा प्रकाशनानि— “सभ्यतानां श्वासः” (वैश्विक–कविता–संकलनम्),“भूली–बिसरी–सभ्यता” इत्यादिनां ग्रन्थानां लोकार्पणम् अपि भविष्यति।
तिवारी अवदत् यत्— अद्य रूस-चीन-अमेरिका-यूक्रेन-ईरान-इराक वेनेजुएला-क्यूबा-बांग्लादेश-नेपाल श्रीलङ्का-पाकिस्तान-इत्यादयः देशाःयुद्ध–हिंसा–सभ्यता–विघटन–पीडाभिः पीडिताः सन्ति। एतादृशे काले महाभारतम्आत्ममन्थनस्य शान्तेः च मार्गं दर्शयति।अस्य महागाथायां युद्धस्य अनिवार्यता तथा तस्य दुष्परिणामानां गम्भीरः बोधः अपि निहितः अस्ति।
सः अवदत् यत्— भगवान् श्रीकृष्णः महाभारत–युद्धं निरोद्धुं स्वजीवने सर्वाधिकं करुणं गम्भीरं च प्रयत्नं कृतवान्। तेन बलं न संवादं, अस्त्रं न विवेकं प्रधानत्वेन स्वीक्रियते स्म। शान्ति–दूतः भूत्वा हस्तिनापुरं गत्वा सः कौरवेभ्यः केवलं पञ्च ग्रामान् याचितवान्, येन धर्ममार्गः त्याग–सहमत्योः माध्यमेन गच्छति इति सिद्धीकृतम्। श्रीकृष्णस्य सन्देशः अद्यापि अत्यन्तं प्रासङ्गिकः अस्ति। युद्धं कदापि प्रथम–विकल्पः न भवेत्, यदि संघर्षम् अनिवार्यं भवति, तदापि तस्य उद्देश्यं विनाशः न, अपि तु न्यायः तथा लोक–कल्याणम् भवेत्।
महाभारते श्रीकृष्णस्य प्रयासः मानवजातये शान्तेः, संवादस्य, विवेकस्य अमर–शिक्षां ददाति। महाभारत–युद्धे १८५ तः अधिकाः जनजातयः सहभागीभूताः आसन्।
तिवारी अवदत् यत्— एतादृश्यां भावभूमौ केन्द्रितः भारतदेशस्य प्रथमः अद्यावधि च महत्तमः सांस्कृतिक–समारोहः भोपाल–नगरे भारत–भवने आयोजितः अस्ति। अस्य शुभारम्भः मुख्यमन्त्री डा.मोहन–यादवेन कर्तव्यः अस्ति। अन्येषु कार्यक्रमेषु मन्त्रिणः मुख्यातिथयः रूपेण आमन्त्रिताः भविष्यन्ति। अयं समागमः महाभारतं केवलं युद्ध–कथारूपेण न, अपि तु शान्ति–करुणा–सभ्यतागत–विवेकस्य महाकाव्यरूपेण प्रस्तावयिष्यति। एतेषां देशानां नाट्य–दलानि प्रस्तुतिं करिष्यन्ति।
न्यासी–सचिवः अवदत् यत्— वैश्विक–सभ्यतानाम् इतिहासः संघर्षस्य औदार्यस्य च सहभाग–गाथा अस्ति। संघर्षेण साहसं, दृढता, अस्मिता च लब्धा, औदार्येण सह–अस्तित्वं, करुणा, संवादः च शिक्षितम्। संस्कृतयः परस्परं शिक्षां लब्ध्वा मानवजातिं अग्रे नीतवत्यः।
एवमेव भारतदेशेन सह इण्डोनेशिया, श्रीलङ्का, जापान इत्येतेषां देशानां प्रतिष्ठित–नाट्य–दलानि स्व–स्व प्रस्तुतिं करिष्यन्ति। अग्रिमवर्षेषु अयं समागमः राष्ट्रीय–अन्ताराष्ट्रिय–स्तरे विस्तारयिष्यते।
श्रीमद्भगवद्गीता–ज्ञान–प्रतियोगितायाः विजेतॄणां सम्मानम्
वीर–भारत–न्यासेन आयोजितायाःश्रीमद्भगवद्गीता–ज्ञान–प्रतियोगितायाःविजेतॄणां सम्मानम् अपि भविष्यति—प्रथम–पुरस्कारः – रायसेन–नगरस्य दीक्षा–सिंहः तथा भोपाल–नगरस्य हिमांशी–मिश्रा (राशिः – एक–लक्ष–रूप्यकाणि)
द्वितीय–पुरस्कारः – ग्वालियर–नगरस्य भुवनेश–कैन (राशिः – एकोनपञ्चाशत्–सहस्र–रूप्यकाणि)
तृतीय–पुरस्कारः – ग्वालियर–नगरस्य मान्या–भटनागर, छिन्दवाडा–नगरस्य गोविन्द–सिंहः, हरदा–नगरस्य कार्तिकः(राशिः – एकविंशति–सहस्र–रूप्यकाणि)
हिन्दुस्थान समाचार / Dheeraj Maithani