मां कारागारं प्रेषयितुं चिन्तयन्ति, अहं तु जनहिताय मरणायापि सज्जा अस्मि : ममता
कोलकातानगरम्, १६ जनवरीमासः (हि.स.)। पश्चिमबङ्गालस्य मुख्यमन्त्री ममता-बनर्जी केन्द्र-सर्वकारे तीव्रम् आक्षेपं कृत्वा अवदत् यत् तां कारागारे निक्षेपयितुं संचेतना दीयते, किन्तु सा भीता न भवति। शुक्रवासरे सञ्चारमाध्यमैः सह संवादे सा अवदत् यत् “केन्द्
ममता


कोलकातानगरम्, १६ जनवरीमासः (हि.स.)। पश्चिमबङ्गालस्य मुख्यमन्त्री ममता-बनर्जी केन्द्र-सर्वकारे तीव्रम् आक्षेपं कृत्वा अवदत् यत् तां कारागारे निक्षेपयितुं संचेतना दीयते, किन्तु सा भीता न भवति।

शुक्रवासरे सञ्चारमाध्यमैः सह संवादे सा अवदत् यत् “केन्द्रीय-अन्वेषण-संस्थायाः कार्ये बाधा कृता” इति आरोपं कृत्वा मां कारागारे स्थापयितुं संचेतना दीयते, परन्तु अहं न बिभेमि। आवश्यकता चेत् जनानां कृते प्राणत्यागायापि सज्जा अस्मि।शुक्रवासरे पश्चिमबङ्गालस्य विविधेषु जनपदेषु परिस्थितयः तणावपूर्णाः आसन्। एकतः झारखण्डे एकस्य प्रवासी-श्रमिकस्य मरणस्य विरोधे मुर्शिदाबाद-जनपदस्य बेलडाङ्गा-प्रदेशे राष्ट्रीय-राजमार्गः रेलमार्गश्च अवरुद्धः कृतः, अपरतः मतदाता-सूच्या: विशेष-गहन-पुनरीक्षणस्य (एसआईआर) नाम्ना कथित-उत्पीडनस्य विरोधे पूर्व-बर्दवान-जनपदस्य समुद्रगढ-रेलस्थानके रेलावरोधः आरब्धः। एतासां घटनानां विषये मुख्यमन्त्री ममता-बनर्जी गम्भीरान् आरोपान् कृत्वा अवदत् यत् हिंसायाः अशान्ते: पृष्ठतः केन्द्रीय-अन्वेषण-संस्थानां समर्थनम् अस्ति।

द्विदिवसीय-उत्तर-बङ्गाल-पर्यटनाय प्रस्थानात् पूर्वं कोलकाता-विमानपत्तने पत्रकारैः सह संवादे मुख्यमन्त्री अवदत् यत् अल्पसंख्यक-समुदाये यः रोषः अस्ति, सः स्वाभाविकः एव। तथापि सा स्पष्टम् अवदत् यत् विध्वंसः हिंसा च कदापि ग्राह्यौ न स्तः। ममता-बनर्जी आरोपं कृत्वा अवदत् यत् योजनाबद्ध-प्रयासैः राज्ये अशान्तिः प्रसार्यते।

बेलडाङ्गा-प्रदेशे स्थानीय-जनैः कृतायाः हिंसाया: दहन-घटनायाश्च विषये मुख्यमन्त्री अवदत् यत् एषा सम्पूर्णा घटना षड्यन्त्ररूपा अस्ति, यस्य उद्देश्यं हिंसाया: प्रसारः एव। सा अवदत् यत् भाजपा-शासितेषु राज्येषु बङ्गालस्य प्रवासी-श्रमिकानां प्रति निरन्तरम् अत्याचाराः क्रियन्ते। राज्य-सर्वकारेण एतादृश-घटनानाम् अनुसन्धानं कृतम्, पीडित-कुटुम्बेभ्यः सर्वसम्भवा सहायता अपि दीयते। ममता-बनर्जी जनान् शान्तिं संयमं च धारयितुं आह्वानं कृतवती।

एसआईआर-विषये मुख्यमन्त्री आरोपं कृत्वा अवदत् यत् तस्य नाम्ना अल्पसंख्यकै: सह आदिवासी-मातुआ-राजबंशी-समुदायानां जनानां नामानि मतदाता-सूचीतः अपसारयितुं षड्यन्त्रं क्रियते। सा अवदत् यत् प्रतिदिनं सन्देश-माध्यमैः नूतन-नूतनानि सूचनापत्राणि प्रेष्यन्ते, येन बूथ-स्तरीय-अधिकारिणां (बीएलओ) उपरि महद् वार्ता जाता। ममता-बनर्ज्याः कथनानुसारम् एषा सम्पूर्णा प्रक्रिया योजनाबद्धरीत्या केवलं पश्चिमबङ्गाल-राज्ये एव प्रयोक्तुं क्रियते, येन भ्रमः असन्तोषश्च उत्पद्यते। राजनैतिक-रणनीति-संस्थायाः “आई-पैक” कार्यालये कृतायाः अन्वेषण-कार्यवाहीविषये अपि मुख्यमन्त्री प्रतिक्रियां दत्तवती।

एषः विषयः अद्य न्यायालये विचाराधीनः अस्ति, अग्रिम: न्यायिक-श्रवण-दिनाङ्कः तु ३ फरवरीमासे निश्चितः अस्ति। अस्मिन् विषये प्रश्नान् पृष्ट्वा सा अवदत् यत् केचन जनाः वारंवारं कथयन्ति यत् मां वर्षाणि यावत् कारागारे स्थापयिष्यन्ति। सा स्पष्टम् अवदत् यत् आवश्यकता चेत् अहं जनहिताय स्वजीवनं दातुमपि सज्जा अस्मि, तथा च एतादृशीभ्यः संचेतनाभ्यः न बिभेमि।

हिन्दुस्थान समाचार / अंशु गुप्ता