ओम बिरला प्रधानमंत्रिणो मोदिनो दूरदर्शी नेतृत्वाय आभारं व्यक्तवान्
नवदिल्ली, 16 जनवरीमासः (हि.स.)। लोकसभाध्यक्षः ओमबिरला राष्ट्रमण्डलदेशानां लोकसभाध्यक्षानां पीठासीनाधिकृतानां च अष्टाविंशतितमे सम्मेलने (सीएसपीओसी) उद्घाटनार्थं माननीयप्रधानमन्त्री नरेन्द्रमोदीमहोदयस्य दूरदर्शिनेतृत्वाय कृतज्ञतां व्यक्तवान्। बिर्ल
लोकसभा स्पीकर ओम बिरला


नवदिल्ली, 16 जनवरीमासः (हि.स.)।

लोकसभाध्यक्षः ओमबिरला राष्ट्रमण्डलदेशानां लोकसभाध्यक्षानां पीठासीनाधिकृतानां च अष्टाविंशतितमे सम्मेलने (सीएसपीओसी) उद्घाटनार्थं माननीयप्रधानमन्त्री नरेन्द्रमोदीमहोदयस्य दूरदर्शिनेतृत्वाय कृतज्ञतां व्यक्तवान्।

बिर्लामहोदयः शुक्रवासरे एक्स इति माध्यमे अवदत्

“भवतः (प्रधानमन्त्रिमोदिनः करकमलाभ्यां अष्टाविंशतितमस्य सीएसपीओसी सम्मेलने उद्घाटनं न केवलं भारतस्य अपि तु समग्रस्य वैश्विकस्य लोकतान्त्रिकसमुदायस्य गौरवक्षणम् अस्ति। भवतः कुशलमार्गदर्शनस्य परिणामस्वरूपेण एव भारतं अद्य सीएसपीओसी इतिहासे सर्वाधिकसहभागितायुक्तं सम्मेलनं आयोजितुं शक्नोति। लोकतान्त्रिकपरम्परासु भवतः दृष्टिकोणः वैश्विकपटल पर संसदीयकार्यप्रणालीं नूतनां दिशां प्रेरणां च ददाति।”

उल्लेखनीयं यत् गुरुवासरे नूतनदिल्लीनगरस्थे संसदभवनपरिसरे संविधानसदनस्य केन्द्रीयकक्षे माननीयप्रधानमन्त्री नरेन्द्रमोदीमहोदयः अष्टाविंशतितमस्य सीएसपीओसी सम्मेलने उद्घाटनं कृतवान्।

अस्मिन् अवसरे संसदीयलोकतन्त्रे अध्यक्षस्य भूमिका अद्वितीया इति निरूप्य माननीयप्रधानमन्त्रिणोक्तम् यत् अध्यक्षाय वक्तुं बहवः अवसराः न भवन्ति किन्तु तस्य प्रमुखा जिम्मेवारी अन्येषां वचनं श्रोतुं तथा सर्वेभ्यः स्वमतप्रकाशनस्य अवसरं सुनिश्चितुं निहिता अस्ति। धैर्यं अध्यक्षानां सर्वसामान्यं गुणम् अस्ति ये कोलाहलकर्तॄन् अतीवोत्साहीन् सांसदान् अपि स्मितपूर्वकं संयोजयन्ति।

---------------

हिन्दुस्थान समाचार