Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 16 जनवरीमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी देशस्य युवा उद्यमिनां निरन्तरं वर्धमानां सफलतां प्रशंसितवान्। सः अवदत् यत् तेषां दृढसंकल्पः तथा समर्पणं स्टार्टअप क्षेत्रे नूतनान् नूतनान् कीर्तिमानान् स्थापयति। एतत् ‘विकसित भारत’ इति संकल्पस्य साकाराय सर्वाधिकं बलं इति सः अभिहितवान्।
प्रधानमन्त्री मोदी सामाजिक माध्यमे प्रेषिते सन्देशे एकं प्राचीनं संस्कृतसुभाषितमपि उल्लिखितवान्। तेन लिखितम्—
“दुर्लभान्यपि कार्याणि सिद्ध्यन्ति प्रोद्यमेन हि। शिलाऽपि तनुतां याति प्रपातेनार्णसो मुहुः॥”
अस्यार्थः अस्ति यत् अतिदुर्लभाणि अपि कार्याणि निरन्तरेण उद्योगेन सिद्धिं प्राप्नुवन्ति। यथा निरन्तरं पतन्त्यः जलधाराः कठोरामपि शिलां शनैः शनैः क्षीणां कुर्वन्ति तथा तत्र छिद्रमपि जनयन्ति।
अनेन सुभाषितेन प्रधानमन्त्री युवान् प्रति सन्देशं दत्तवान् यत् अशक्यवत् प्रतीताः लक्ष्याः अपि निरन्तरपरिश्रमेण उत्साहेन च दृढनिश्चयेन च साध्याः भवन्ति।
प्रधानमन्त्री मोदीः अवदत् यत् युवा शक्तिरेव भारतं २०४७ तमे वर्षे विकसितराष्ट्ररूपेण स्थापितुं मुख्यं आधारं भविष्यति।
---------------
हिन्दुस्थान समाचार