Enter your Email Address to subscribe to our newsletters

नग्रामः (असमः), 16 जनवरीमास (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी अष्टादशतमे जनवरीमासे कलियाबोरस्थिते मौचन्दाक्रीडांगणे प्रस्तावितां जनसभां सम्बोधयिष्यति। अस्मिन्नेव अवसरें प्रधानमन्त्री काजीरङ्गा एलिवेटेड कॉरिडोर परियोजनायाः शिलान्यासं अपि करिष्यति। एषा परियोजना राज्यस्य एका महत्त्वपूर्णा आधारभूत संरचना परियोजना इति मन्यते।
असमप्रदेशीयभारतीयजनतापक्षस्य अध्यक्षः दिलीपसैकिया जनसभास्थलस्य निरीक्षणं कृतवान्। सः आयोजनस्थले व्यवस्थाः समीक्षितवान् तथा सुरक्षा अन्येषां च आवश्यकप्रबन्धानां विषये सम्बन्धितैः अधिकारिभिः पक्षकार्यकर्तृभिः च सह चर्चां कृतवान्।
काजीरङ्गा एलिवेटेड कॉरिडोर परियोजनया यातायातव्यवस्था सुचारुरूपेण भविष्यति, अपि च काजीरङ्गा राष्ट्रीयोद्यानस्य वन्यजीवसंरक्षणे अपि सहायता भविष्यतीति अपेक्षा अस्ति। अस्यां प्रधानमन्त्रीजनसभायां बहुसंख्यकाः जनाः सहभागी भविष्यन्तीति सम्भावना वर्तते।
----------------------------------
हिन्दुस्थान समाचार