दार्शनिकाय तिरुवल्लुवराय प्रधानमन्त्री–मोदिना सह अनेकैः नेतृभिः श्रद्धाञ्जलिः अर्पिता
नवदिल्ली, १६ जनवरीमासः (हि.स.)।तिरुवल्लुवर–दिवसस्य अवसरे महान् तमिळ–सन्तं, कविं, दार्शनिकं तिरुवल्लुवरं प्रति श्रद्धाञ्जलिः अर्पिता। प्रधानमन्त्री श्रीनरेन्द्र–मोदी, लोकसभाध्यक्षः ओम–बिरला, केन्द्रीय–गृहमन्त्री अमित–शाहः, विपक्ष–नेतारश्च शुक्रवासर
महान तमिल संत, कवि और दार्शनिक तिरुवल्लुवर (फाइल फोटो)।


नवदिल्ली, १६ जनवरीमासः (हि.स.)।तिरुवल्लुवर–दिवसस्य अवसरे महान् तमिळ–सन्तं, कविं, दार्शनिकं तिरुवल्लुवरं प्रति श्रद्धाञ्जलिः अर्पिता। प्रधानमन्त्री श्रीनरेन्द्र–मोदी, लोकसभाध्यक्षः ओम–बिरला, केन्द्रीय–गृहमन्त्री अमित–शाहः, विपक्ष–नेतारश्च शुक्रवासरे तस्य योगदानं स्मृत्वा नमनं कृतवन्तः।

प्रधानमन्त्री श्रीनरेन्द्र–मोदी तिरुवल्लुवर–दिवसे श्रद्धाञ्जलिम् अर्पयन् अवदत् यत् तिरुवल्लुवरः बहुमुखी–प्रतिभायाः धनी आसीत्, यस्य कार्याणि आदर्शाश्च असंख्य–जनान् प्रेरयन्ति। सः अवदत् यत् तिरुवल्लुवरः सौहार्दपूर्णे दयालु–समाजे विश्वासम् अकरोत्। सः च तमिळ–संस्कृतेः श्रेष्ठं प्रतिनिधित्वं करोति। प्रधानमन्त्री जनान् तिरुक्कुरल–ग्रन्थस्य पठनाय आह्वानं कृत्वा अवदत् यत् अयं ग्रन्थः महान् तिरुवल्लुवरस्य उत्कृष्ट–बुद्धेः स्पष्टं दर्शनं प्रदर्शयति।

लोकसभाध्यक्षः ओम–बिरला तिरुवल्लुवरं महान् तमिळ–सन्तं, कविं, दार्शनिकं च उक्त्वा अवदत् यत् स्वस्य अमर–कृतेः तिरुक्कुरलस्य माध्यमेन सःजगतः प्रति नीतिः, शासनम्, धर्मः, करुणा च विषये गम्भीरं मार्गदर्शनं दत्तवान्। सः अवदत् यत् तिरुवल्लुवरस्य शिक्षाकालात्, धर्मात्, भूगोलात् च अतीताः सन्ति मानवतां च नैतिक–आचरणे, सामाजिक–सद्भावे, मानवीय–गरिमायां च निरन्तरं प्रेरयन्ति।

केन्द्रीय–गृहमन्त्री अमित–शाहः अपि तिरुवल्लुवर–दिवसे महान् सन्तं श्रद्धाञ्जलिं अर्पितवान्। सः अवदत् यत् तिरुवल्लुवरस्य जीवनं कार्यं च अस्माकं सभ्यतायाः उच्चतम–गुणानां प्रतीकं अस्ति पवित्र–जीवनस्य सामञ्जस्यपूर्ण–समाजस्य च मार्गं प्रशस्तं करोति। तस्य परम्परा अग्रिमवंशान् महत्त्वपूर्ण–यात्रायां मार्गदर्शनं करिष्यति।

कांग्रेस–दलस्य राष्ट्रीय–अध्यक्षः मल्लिकार्जुन–खरगे तिरुवल्लुवर–दिवसे शुभकामनाः दत्त्वा अवदत् यत् अद्य वयं नैतिक, सामाजिक, राजनीतिक, आर्थिक, धार्मिक, दार्शनिक, आध्यात्मिक–ज्ञानस्य स्थायी–स्रोत: तिरुवल्लुवरं श्रद्धया नमामः।सः अवदत् यत् तिरुवल्लुवरस्य कालातीतः ग्रन्थः तिरुक्कुरलः मानवतायै स्पष्टता, करुणा, सत्यस्य च मार्गं दर्शयन् दुर्लभः उज्ज्वलः मार्गदर्शकः अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता