पीडब्ल्यूएल–२०२६ महोत्सवस्य भव्यः आरम्भः, चैम्पियनशिप–विजय–पुरस्कारस्य अभवत् अनावरणम्
नोएडानगरम्, १६ जनवरीमासः (हि.स.)।प्रो–रेसलिंग–लीग (पीडब्ल्यूएल)–२०२६ इत्यस्य आधिकारिक–उद्घाटनं बुधवासरे नोएडा–इण्डोर–क्रीडा–स्थले चैम्पियनशिप–विजय–कपस्य अनावरणेन सह सम्पन्नम्। सप्त–वर्षस्य दीर्घ–अन्तरालस्य अनन्तरं लीग-इत्यस्य पुनरागमनं तथा पञ्चम–सत
पीडब्ल्यूएल 2026 का भव्य आगाज


नोएडानगरम्, १६ जनवरीमासः (हि.स.)।प्रो–रेसलिंग–लीग (पीडब्ल्यूएल)–२०२६ इत्यस्य आधिकारिक–उद्घाटनं बुधवासरे नोएडा–इण्डोर–क्रीडा–स्थले चैम्पियनशिप–विजय–कपस्य अनावरणेन सह सम्पन्नम्। सप्त–वर्षस्य दीर्घ–अन्तरालस्य अनन्तरं लीग-इत्यस्य पुनरागमनं तथा पञ्चम–सत्रस्य आरम्भः अयं समारोहः विशेषत्वेन उल्लेखनीयः आसीत्।उद्घाटन–कार्यक्रमः पञ्जाब–रॉयल्सदलं तथा यू.पी.–डॉमिनेटर्सदलम् इत्येतयोः प्रथम–स्पर्धा पूर्वमेव आयोजिता, या नव–पीडब्ल्यूएल–युगस्य औपचारिक–आरम्भस्य संकेतं दत्तवती।

अस्मिन् अवसरे भारतीय–मल्लयुद्ध–महासंघस्य (डब्ल्यूएफआई) पूर्व–अध्यक्षः तथा मुख्यातिथिः बृज–भूषण–शरण–सिंहः तस्य उपस्थितौ चैम्पियनशिप–कप-इत्यस्य अनावरणं कृतवान्। कार्यक्रमे डब्ल्यूएफआई–अध्यक्षः संजय–सिंहः, पीडब्ल्यूएल–अध्यक्षः एवं प्रवर्तकः दयान–फरूकी, तथा प्रतियोगिताया: मुख्य–कार्यकारी–अधिकारी अखिल–गुप्ता अपि उपस्थिताः आसन्।

डब्ल्यूएफआई–अध्यक्षः संजय–सिंहः पीडब्ल्यूएल–इत्यस्य महत्त्वं प्रकाशयन् अवदत् यत्— एषा प्रतियोगिता सदैव भारतीय–मल्लयुद्ध–खेलाय सुदृढं मञ्चं प्रदत्तवती अस्ति। पीडब्ल्यूएल–२०२६ कृते चयनिताः प्रतिभाशालिनः मल्ला: अस्य प्रमाणं यत्, गत–वर्षेषु देशे मल्लयुद्ध–खेलस्य स्तरः अत्यन्तम् उन्नतः अभवत्।

मुख्यातिथिः बृज–भूषण–शरण–सिंहः अवदत् यत्— पीडब्ल्यूएल–सदृशी व्यावसायिक–प्रतियोगिता मल्लानां कृते महत्तमं लाभं वहति। भारतदेशः ओलम्पिक–क्रीडायां मल्लयुद्ध–खेलस्य माध्यमेन निरन्तरं पदकानि जेतुम् समर्थः अस्ति, तस्य परम्परायाः संरक्षणाय अन्ताराष्ट्रिय–स्तरीया प्रतिस्पर्धा अत्यावश्यकी अस्ति।पीडब्ल्यूएल भारतीय–मल्लान् विश्वस्य श्रेष्ठ–मल्लो: सह स्पर्धायै अवसरं ददाति।

पीडब्ल्यूएल–अध्यक्षः दयान–फरूकी अयं कार्यक्रम: प्रतियोगिताया: नव–अध्यायस्य आरम्भः इति वर्णयन् अवदत् यत्—व्यापक–पुनर्गठनानन्तरम् अस्मिन् सत्रे व्यावसायिकः, पारदर्शी तथा क्रीडक–केन्द्रितः नमूना निर्मिता अस्ति।

मुख्य–कार्यकारी–अधिकारी अखिल–गुप्ता अवदत् यत्— पीडब्ल्यूएल–२०२६ सर्वेषां हितधारकानां सहयोगेन दीर्घकालीन–योजनया च निर्मितः परिणामः अस्ति, यत्र नीलामी–प्रणालीतः आरभ्य प्रतियोगिता–रूपरेखापर्यन्तं सर्वं सुव्यवस्थितं कृतम् अस्ति। पुरस्कार–अनावरणानन्तरम् उद्घाटन–स्पर्धा पञ्जाब–रॉयल्स–दलस्य चन्द्रमोहनः तथा यू.पी.–डॉमिनेटर्स–दलात् आर्मेनिया–देशीयः आर्मन–आन्द्रेस्यानः परस्परं स्पर्धितवन्तौ।

एतेन सह षट्–फ्रैंचाइज़ी–दलानां, ओलम्पिक–पदक–विजेतॄणां, विश्व–विजेता–मल्लानां तथा भारतस्य श्रेष्ठ–मल्लयुद्ध–वीराणामृ उपस्थित्याएकं रोमाञ्चकं सत्रम् औपचारिकतया आरब्धम्।

नव–प्रतियोगिता–प्रारूपानुसारं प्रत्येकं समान–स्पर्धायां नव (९) स्पर्धाः आयोजयिष्यन्ते। पीडब्ल्यूएल–२०२६–इत्यस्य प्रत्यक्ष–प्रसारणं सोनी–टेन–४ तथा सोनी–टेन–५ इत्येतयोः दूरदर्शन–माध्यमयोः क्रियते, तथा डिजिटल–दर्शकाःसोनी–लिव्–मञ्चे प्रत्यक्ष–प्रसारणं द्रष्टुं शक्नुवन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani