मूर्मुः १००८–कुण्डीय–हनुमान्–महायज्ञे सम्मिलिता
जयपुरनगरम्, १६ जनवरीमास: (हि.स.)। राष्ट्रपतिः द्रौपदी मूर्मुः शुक्रवासरे एकदिवसीय–यात्रायै जयपुरं प्राप्तवती। सा सीकर–मार्गस्थिते निन्दडे–क्षेत्रे आयोजिते १००८–कुण्डीय–हनुमान्–महायज्ञे तथा श्रीराम–कथायां च सम्मिलिता। जगद्गुरु–स्वामि–रामभद्राचार्य–म
यज्ञ की पूर्णाहुति देती हुईं राष्ट्रपति द्रौपदी मुर्मु, साथ में राजस्थान के मुख्यमंत्री भजनलाल शर्मा ।


यज्ञ की पूर्णाहुति देती हुईं राष्ट्रपति द्रौपदी मुर्मु, साथ में राजस्थान के मुख्यमंत्री भजनलाल शर्मा एवं राज्यपाल हरिभाऊ बागड़े।


जयपुरनगरम्, १६ जनवरीमास: (हि.स.)। राष्ट्रपतिः द्रौपदी मूर्मुः शुक्रवासरे एकदिवसीय–यात्रायै जयपुरं प्राप्तवती। सा सीकर–मार्गस्थिते निन्दडे–क्षेत्रे आयोजिते १००८–कुण्डीय–हनुमान्–महायज्ञे तथा श्रीराम–कथायां च सम्मिलिता। जगद्गुरु–स्वामि–रामभद्राचार्य–महाराज्ञ: सान्निध्ये मन्त्र–उच्चारणपूर्वकं विश्वकल्याणार्थं यज्ञ–कर्मणि पूर्णाहुतिं दत्तवती। अस्मिन् अवसरे राज्यपालः हरिभाऊ बागडे तथा मुख्यमन्त्री भजनलाल: शर्मा अपि उपस्थितौ आस्ताम्।

तदनन्तरं राष्ट्रपतिः महायज्ञे पूजां कृत्वा देशस्य प्रदेशस्य च सुख–समृद्धि–कामनां कृतवती। ततः राष्ट्रपतिः, राज्यपालः, मुख्यमन्त्री च यज्ञशालायाः परिक्रमां कृतवन्तः।

अस्मिन् अवसरे राष्ट्रपतिः जगद्गुरुं रामभद्राचार्यम् उपगत्य तस्य अभिनन्दनमपि अकरोत्। पूर्वमेव राष्ट्रपतेः जयपुर–विमानपत्तनम् आगमने मुख्यमन्त्री पुष्पगुच्छं समर्प्य तस्याः स्वागतं कृतवान्। अस्मिन् अवसरे उपमुख्यमन्त्री दियाकुमारी, डॉ.प्रेमचन्द: बैरवा, सांसदः मदन राठौड:, मुख्यसचिवः वी.श्रीनिवासः, आरक्षी–महानिदेशकः राजीवकुमार–शर्मा, अन्ये च वरिष्ठ–अधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता