Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १६ जनवरीमासः (हि.स.)।सांख्यिकी–कार्यक्रम–कार्यान्वयन मन्त्रालयेन सांख्यिकी–क्षेत्रे ‘सुखात्मे–राष्ट्रीय–पुरस्कार–२०२६’ इत्यस्य कृते अन्तर्जाल–नामांकन–प्रक्रिया आरब्धा अस्ति। अस्य पुरस्कारस्य मुख्य–उद्देश्यम् सांख्यिकी–क्षेत्रे नवाचारस्य प्रोत्साहनम् विशेषज्ञानां योगदानय राष्ट्रीय–स्तरे मान्यताप्रदानं च अस्ति।
मन्त्रालयेन शुक्रवासरे निर्गता–विज्ञप्त्या ज्ञापितं यत् अयं पुरस्कारः २९ जूनमासे २०२६ ‘सांख्यिकी–दिवस’–समारोहस्यअवसरे प्रदास्यते। सम्मान–समारोहस्य काले पुरस्कार–विजेता विशेष–सत्रं सम्बोधितुं आमन्त्रयिष्यते, यत्र सः स्वस्य अनुसन्धान–कार्यस्य महत्त्वस्य उपलब्धीनां च विस्तरेण बोधयिष्यति। इच्छुकाः योग्या: अभ्यर्थिनः स्वयं नामांकनंकर्तुं शक्नुवन्ति अथवा विविध–संस्थाभिःतेषां नाम प्रस्तावयितुं शक्यते। नामांकन–प्रक्रिया ३१ जनवरीमासः २०२६ पर्यन्तं सम्पूर्णीकरणीया अस्ति। आवेदनानि केवलं राष्ट्रीय–पुरस्कार–पटलमाध्यमेन आनलाइन–रूपेण स्वीकार्याणि भविष्यन्ति। अस्मिन् ४५ वर्षाणि वा अधिक–वयसः भारतीय–सांख्यिकीविदःआवेदनं कर्तुं पात्राः सन्ति। प्रक्रियाया: समाप्तौ सांख्यिकी–क्षेत्रे उच्च–गुणवत्तायुक्त–अनुसन्धानम् सांख्यिकीय–प्रणाल्याः सुदृढीकरणे विशेष–उपलब्धयः आधारं कृत्वा विजेतारः चेष्यन्ते। चयनित–विजेत्रे प्रशस्ति–पत्रम्, प्रावार:, स्मृति–चिह्नं च प्रदास्यते।
उल्लेखनीयम् यत् वर्षे २००० आरब्धः अयं पुरस्कारः प्रत्येकं द्वितीय–वर्षे (द्विवार्षिक–रूपेण) प्रदीयते। अयं पुरस्कारः तान् प्रख्यात–भारतीय–सांख्यिकीविदः प्रति दत्तः यैः आधिकारिक–सांख्यिकी–प्रणाल्याः संशोधनाय असाधारण–अनुसन्धानम् आजीवन–योगदानं चकृतम् अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता