Enter your Email Address to subscribe to our newsletters

नव दिल्ली,16 जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी जनान् प्रति आवाहनं कृतवान् यत् ते महान् दार्शनिकः तिरुवल्लुवरः रचितं तिरुक्कुरलम् अवश्यं पठेयुः। विशेषतया उल्लेखनीयं यत् तस्य सम्मानार्थं प्रतिवर्षं तिरुवल्लुवरदिवसः आचर्यते।
तिरुवल्लुवरदिवसस्य अवसरे प्रधानमन्त्री नरेन्द्रमोदी ‘एक्स्’ इति माध्यमे लिखितवान्—“अद्य तिरुवल्लुवरदिवसस्य अवसरें अहं तं महान् तिरुवल्लुवरं श्रद्धाञ्जलिं समर्पयामि, यस्य रचनाः विचाराश्च अद्यापि कोटिशः जनान् प्रेरयन्ति। सः सद्भावेन करुणया च परिपूर्णे समाजे दृढं विश्वासं कृतवान्। सः तमिलसंस्कृतेः श्रेष्ठमूल्यानां प्रतीकः अस्ति। तिरुवल्लुवरस्य असाधारणप्रज्ञां दर्शयत् तिरुक्कुरलम् यूयं सर्वे अवश्यं पठत— एतत् मम आह्वानम्।”
उल्लेखनीयं यत् देशे विदेशे च निवसन्तः तमिलजनाः प्रतिवर्षं तमिलमासस्य ‘थाई’ नाम्नः प्रथमदिने पोंगल् पर्व आचरन्ति। पोंगलोत्सवः केवलं एकदिनपर्यन्तं न सीमितः भवति। थाईमासस्य प्रथमदिने पोंगलपर्व, द्वितीयदिने मट्टूपोंगल्, तथा तिरुवल्लुवरदिवसः आचर्यते।
जीवनस्य सर्वान् नैतिकमूल्यान् त्रयोदशशतानि त्रयस्त्रिंशत् अधिकानि तिरुक्कुरलानि द्वारा शिक्षयन् तिरुवल्लुवरः एकः महान् दार्शनिकः आसीत्।
हिन्दुस्थान समाचार