Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 16 जनवरीमासः (हि.स.)। आन्ध्रप्रदेशस्य श्रीकाकुलम्-जनपदे पोंडुरु-ग्रामे निर्मिता खादी शुक्रवासरे जियोग्राफिकल् इण्डिकेशन (जीआई) इति मान्यतां प्राप्तवती। अस्यां विषये हर्षं प्रकटयन् खादी ग्रामोद्योग आयोगस्य अध्यक्षः मनोजकुमारः प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति कृतज्ञतां व्यक्तवान्।
जीआई मान्यताप्राप्तेः अर्थः एषः यत् पोंडुरु-खादेः परिचयः अधुना विधिकरूपेण सुरक्षितः अभवत्, तस्य अनुकरणं कर्तुं कश्चिदपि न शक्नोति। आयोगाध्यक्षः मनोजकुमारः सञ्चारमाध्यमैः सह संवादे अवदत् यत् पोंडुरु-खादी महात्मा-गान्धेः स्वदेशी-विचारेण सह सम्बद्धा अस्ति। प्रधानमन्त्री-मोदीस्य नेतृत्वे खादी अद्य आत्मनिर्भर-भारतस्य परिचयः अभवत्। सः अवदत् यत् शीघ्रमेव पोंडुरु-खाद्या सम्बद्धान् सूतकर्षकान् तन्तुवायांश्च सम्मानयितुं विशेषः कार्यक्रमः आयोजितः भविष्यति। एषा जीआई मान्यता पारम्परिक-कारीगराणां सम्मानस्य संरक्षणस्य च तथा आत्मनिर्भर-भारतस्य दिशायां महत्त्वपूर्णं पादं अस्ति।
पोंडुरु-खादी किमर्थं विशेषा?
एषा खादी आन्ध्रप्रदेशस्य श्रीकाकुलम्-जनपदे पोंडुरु-ग्रामे निर्मीयते। स्थानीयैः जनैः सा पट्नुलु इति कथ्यते। सा पूर्णतया हस्तेन काता च बुना च भवति। अस्यां पर्वतीय-कपासः पुनासा-कपासः रक्त-कपासश्च प्रयुज्यन्ते।
कपासस्य शोधनाय वलुगा-मत्स्यस्य हनु-अस्थ्नः उपयोगः क्रियते एषः उपायः विश्वे अन्यत्र न दृश्यते। अस्याः सूतस्य सूक्ष्मता यार्न-काउण्ट १०० ते १२० पर्यन्तं भवति यत् अतीवोत्तमगुणवत्तां दर्शयति।
जीआई मान्यतया पोंडुरु-खादी देशे विदेशे च विशेषां ख्यातिं प्राप्स्यति।कारीगराणां आयः वर्धिष्यते। नवीनाः रोजगार-अवसराः उत्पत्स्यन्ते।ग्राहकाः असलां शुद्धां च खादीं प्राप्स्यन्ति।
----
हिन्दुस्थान समाचार