महिमागवाड़्यां धनकुल गीतैः सह नवदिवसीयं मातुर्लक्ष्म्याःजागरणं संपन्नम्
नारायणपुरम्, 17 जनवरीमासः (हि.स.)। जिल्लायाः महिमागवाडीनामकपञ्चायते नयापारानाम्नि स्थाने अद्य शनिवासरे श्रद्धया उल्लासेन च मातुः लक्ष्म्याः जगारोत्सवः सफलतया सम्पन्नः।नवदिवसीयं लक्ष्मी जगार आयोजनं कृतम्। आयोजनकाले धनकुलगीतानां सततं गायनं अभवत्, यत्
महिमागवाड़ी में धनकुल गीतों के साथ 9 दिवसीय मां लक्ष्मी जगार हुआ संपन्न


नारायणपुरम्, 17 जनवरीमासः (हि.स.)। जिल्लायाः महिमागवाडीनामकपञ्चायते नयापारानाम्नि स्थाने अद्य शनिवासरे श्रद्धया उल्लासेन च मातुः लक्ष्म्याः जगारोत्सवः सफलतया सम्पन्नः।नवदिवसीयं लक्ष्मी जगार आयोजनं कृतम्। आयोजनकाले धनकुलगीतानां सततं गायनं अभवत्, यत् लक्ष्मी जगारस्य विशेषपरिचायकं मन्यते।

नयापारे आयोजिते लक्ष्मी जगारे श्रद्धा भक्ति लोकगीतानां च अद्भुतः संगमः दृष्टः, येन बस्तरप्रदेशस्य लोकपरम्पराः सजीवाः अभवन्। मातुः लक्ष्म्याः जगारोत्सवः न केवलं धार्मिकआस्थायाः केन्द्रं अस्ति, अपि तु बस्तरस्य समृद्धां लोकसंस्कृतिं संरक्षितुं साधनमपि अस्ति।

लक्ष्मी जगारे बस्तरस्य परिचयभूतानि धनकुलगीतानि हल्बीभाषायां गीयन्ते। एतेषु गीतिषु धनुषः जातया विशिष्टया ध्वन्या सह मृत्तिकाहण्ड्या पारम्परिकवाद्यैश्च देवी लक्ष्म्याः आराधना क्रियते। एतां परम्परां पालयन्ति ये गायकाः ते हल्बीभाषायां गुरुमाय इति कथ्यन्ते, यस्य अर्थः गुरु माता इति भवति।

ग्रामीणैः कथितं यत् बस्तरप्रदेशे चत्वारः प्रकाराः जगाराः सन्ति, तेषु लक्ष्मी जगारस्य विशेषं महत्त्वं विद्यते। अस्य जगारस्य वैशिष्ट्यं इदं यत् अत्र पुरुषाः महिलाश्च समभावेन भागं गृह्णन्ति, तथा च सम्पूर्णां रात्रिं गीतमाध्यमेन देवीपूजा क्रियते।

---------------

हिन्दुस्थान समाचार