भाजपा-दलस्य राष्ट्रिय-अध्यक्ष-निर्वाचने छत्तीसगढात् सप्तदश नेतारः सहभागिन: भविष्यन्ति
रायपुरनगरम्, १७ जनवरीमास: (हि.स.)। भारतीय-जनता-दलस्य राष्ट्रिय-अध्यक्ष-निर्वाचने छत्तीसगढ-प्रदेशात् सप्तदश नेतारः सहभागिन: भविष्यन्ति। एतेषु मुख्यमन्त्री विष्णुदेव-सायः, उपमुख्यमन्त्री अरुण-सावः, गृहमन्त्री विजय-शर्मा, राष्ट्रिय-उपाध्यक्षः सरोज-पाण
भाजपा-दलस्य राष्ट्रिय-अध्यक्ष-निर्वाचने छत्तीसगढात् सप्तदश नेतारः सहभागिन: भविष्यन्ति


रायपुरनगरम्, १७ जनवरीमास: (हि.स.)। भारतीय-जनता-दलस्य राष्ट्रिय-अध्यक्ष-निर्वाचने छत्तीसगढ-प्रदेशात् सप्तदश नेतारः सहभागिन: भविष्यन्ति। एतेषु मुख्यमन्त्री विष्णुदेव-सायः, उपमुख्यमन्त्री अरुण-सावः, गृहमन्त्री विजय-शर्मा, राष्ट्रिय-उपाध्यक्षः सरोज-पाण्डेयः, लता-उसेंडी, केन्द्रीय-राज्यमन्त्री तोखन-साहू च, तथा अनेके सांसदाः विधायकाश्च सन्ति।

भारतीय-जनता-दले नवीन-राष्ट्रिय-अध्यक्ष-निर्वाचन-प्रक्रिया १९ जनवरीमासे २०२६ तमे दिने आरभ्स्यते। अध्यक्ष-पदस्य नाम्नः औपचारिकी घोषणा २० जनवरी-दिवसे भविष्यति। अस्मिन् निर्वाचने छत्तीसगढ-प्रदेशस्य भूमिका अतीव महत्त्वपूर्णा भविष्यति, यतः अस्य प्रदेशस्य एतस्मिन् पर्याये पूर्ण-सहभागितायाः अवसरः प्राप्तः अस्ति।

भाजपा-प्रदेश-कार्यालयात् प्राप्त-सूचनानुसारम्, अस्मिन् पर्याये छत्तीसगढे प्रदेश-संघटन-निर्वाचनानि सम्पन्नानि, अतः राष्ट्रिय-परिषदः सप्तदश सदस्याः चयनिताः। एते सदस्याः राष्ट्रिय-अध्यक्षस्य नामाङ्कने प्रस्तावक-समर्थक-रूपेण भूमिकां निर्वहिष्यन्ति।

एतेषु मुख्यमन्त्री विष्णुदेव-सायः, उपमुख्यमन्त्री अरुण-सावः तथा विजय-शर्मा, राष्ट्रिय-उपाध्यक्षः सरोज-पाण्डेयः, लता-उसेंडी, केन्द्रीयमन्त्री तोखन-साहू, सांसदाः बृजमोहन-अग्रवालः, सन्तोष-पाण्डेयः, विजय-बघेलः, रूपकुमारी-चौधरी, राज्यसभा-सांसदः देवेंद्र-राजा-प्रताप-सिंहः, विधायकाः विक्रम-उसेंडी, पुन्नूलाल-मोहिले, प्रदेशमन्त्री दयालदास-बघेलः, केदार-कश्यपः, पूर्व-विधायकः ननकीराम-कंवरः, खूबचन्द-पारसा च सन्ति।

एते सर्वे नेतारः नामाङ्कन-प्रक्रियायाः दिवसे अर्थात् १९ जनवरी-दिने अथवा तस्मात् एक-दिनपूर्वं १८ जनवरी-दिने दिल्लीं प्राप्स्यन्ति। ते केवलं प्रस्तावक-समर्थक-रूपेण हस्ताक्षरं करिष्यन्ति इति न, अपि तु यदि निर्वाचने मतदानं भविष्यति तर्हि मताधिकारम् अपि प्राप्स्यन्ति।

उल्लेखनीयम् अस्ति यत् २०२० तमे वर्षे जे.पी. नड्डा-महोदयस्य निर्वाचने, छत्तीसगढे संघटन-निर्वाचनानि अपूर्णानि आसन्, अतः तदा प्रदेशस्य सहभागिता न प्राप्ता आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता