Enter your Email Address to subscribe to our newsletters


दरभङ्गाजनपद:, १७ जनवरीमासः (हि.स.)। बिहार-राज्ये दरभङ्गा-जनपदे तारडीह-प्रखण्डान्तर्गते लग्मा-ग्रामे राष्ट्रिय-स्वयंसेवक-संघस्य (आरएसएस) शताब्दी-वर्षस्य उपलक्ष्ये एकदिवसीयं विराट् हिन्दू-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने आरएसएस-इत्यस्य सरकार्यवाह: दत्तात्रेय-होसबाले मुख्यवक्ता रूपेण उपस्थितः। सः स्वस्य भाषणे राष्ट्रिय-चेतनाया:, सामाजिक-समरसताया: च हिन्दू-सामाजस्य ऐक्ये विशेषं बलं प्रदत्तवान्।
सरकार्यवाह: दत्तात्रेय-होसबाले अवदत् यत् इतिहासः साक्षी अस्ति यत् यदा-यदा हिन्दू-सामाजे विभाजनस्य समस्या: उत्पन्नाः, तदा-तदा परदेशीय-आक्रमकाः देशे राज्यं कृतवन्तः।
सः अवदत् यत् हिन्दू-सामाजस्य ऐक्यम् एव भारतं सशक्तं कुर्वन्ति, तथा एषा एव देशस्य महत्तमा शक्ति:। यदा समाजः संगठितः आसीत्, तदा राष्ट्रे उन्नति: अभवत्, यदा च समाजे विघटनं जातम्, तदा देशे बाह्य-आक्रमणानि अभवन्।
सः अवदत् यत् हिन्दू-सामाजस्य संगठित-शक्तिः एव भारतस्य सांस्कृतिक-धरोहरं, सामाजिक-समरसतां तथा राष्ट्रिय-अखंडतां रक्षितुं समर्था। अद्यतनसमये समाजस्य प्रत्येकं वर्गम् एकीकृत्य सांस्कृतिक-चेतना दृढीकर्तुं आवश्यकम् अस्ति।
दत्तात्रेय-होसबाले यून: प्रति विशेषम् आह्वानं कृतवान् यत् ते स्व-धर्मं संस्कृतिं राष्ट्रं चल प्रति सजगा: स्युः। सः अवदत् यत् राष्ट्र-निर्माणे यूनां भूमिका अतीव महत्वपूर्णाः, तथा तेषां सक्रियः सकारात्मकः च सहभागः एव देशाय नवीनं मार्गं प्रदास्यति।
भारतस्य सांस्कृतिक-परम्परायाः वर्णनं कुर्वन् सरकार्यवाह: अवदत् — “वसुधैव कुटुम्बकम्” इत्यस्य भावना भारतीय-संस्कृतेः आत्मा आसीत्, यस्मिन् समग्रं विश्वम् एकं कुटुम्बम् इव दृष्टम्। अनेन चिन्तया भारतदेश: कदापि आक्रमणकारी मार्गं न स्वीकरोति, अपितु सदैव ज्ञानम्, संस्कृतिः, शान्तिः मानवता च विश्वाय ददाति।
सम्मेलनम् अवलोक्य समाजस्य विविध-वर्गीयानां जनानां महती संख्या उपस्थिता आसीत्। समीपवर्तीक्षेत्रेभ्यः अपि जनानां विशालं समुदायं सम्मेलनम् आगतः। कार्यक्रमानन्तरं दत्तात्रेय-होसबाले दरभङ्गा-चिकित्सा-महाविद्यालये तथा चिकित्सालये (डीएमसीएच) आयोजिते आरएसएस-शताब्दी-वर्ष-संगोष्ठीम् अपि सम्बोधितवान्।
पूर्वमेव, लग्मा-ग्रामे स्थिते जे.एन.वी.आदर्श-संस्कृत-महाविद्यालये आयोजिते विराट-हिन्दू-सम्मेलने दत्तात्रेय-होसबाले मिथिलाप्रदेशस्य परम्परानुसारं पागं धारयित्वा स्वागतं प्राप्तवान्। मञ्चे अन्यै: विशिष्ट-विद्वद्भि: सह लग्मा-संस्थानस्य बाबा अपि उपस्थिताः।
अस्मिन् अवसरे महाविद्यालयस्य प्राचार्यः, अन्ये प्राध्यापकाः च अनेके गण्यमान्या: च उपस्थिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता