Enter your Email Address to subscribe to our newsletters

सिलीगुड़ी-नगरम्, १७ जनवरीमासः (हि.स.)। कलकत्ता-उच्च-न्यायालयस्य जलपाईगुड़ी-सर्किट्-पीठस्य उद्घाटन-कार्यक्रमे सहभागं कर्तुं केन्द्रीय-न्याय-मन्त्री अर्जुनराम-मेघवालः शनिवासरे दिल्ली-नगरात् बागडोगरा-विमानपत्तनं प्राप्तवान्। बागडोगरा-विमानपत्तने पत्रकारैः सह वार्तालापं कुर्वन् सः पश्चिम-बङ्गाल-राज्यस्य न्याय-व्यवस्थां प्रति तीक्ष्णां टिप्पणीं कृतवान्।
केन्द्रीय-न्याय-मन्त्री अवदत् यत् पश्चिम-बङ्गाल-राज्यस्य न्याय-व्यवस्थायाः स्थिति: किञ्चिदपि शोभना नास्ति। तथापि सः स्पष्टं कृतवान् यत् सः जलपाईगुड़ी-नगरे उच्च-न्यायालयस्य सर्किट्-पीठ-उद्घाटन-समारोहे सहभागं कर्तुम् आगतः अस्ति।
अस्मिन् अवसरे अर्जुनराम-मेघवालः मुम्बई-म्युनिसिपल-कॉर्पोरेशन (बी.एम्.सी.)-निगमे भारतीय-जनता-पक्षस्य (भा.ज.पा.) विजयस्य अपि विषये प्रतिक्रियां व्यक्तवान्।
सः अवदत् यत् बी.एम.सी.-निगमे भा.ज.पा.-पक्षस्य विजयेन एतत् स्पष्टं जातं यत् महाराष्ट्र-राज्यस्य जनता विकासाय सुसर्वकाराय च प्राथमिकतां ददाति। अनेन विजयेन मुम्बई-नगरस्य समग्र-विकासाय अधिका गति: लप्स्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता