इतिहासस्य पृष्ठेषु 18 जनवरीः द जंगल बुक इत्यस्य रचयिता रुडयार्ड किपलिंगः निधनंगतः
प्रसिद्धः ब्रिटिशलेखकः कविश्च रुडयार्ड किपलिंगः सत्तरवर्षीय आयुषि अष्टादशे जनवरी मासे १९३६ तमे वर्षे लन्दन नगरे निधनं प्राप्तवान्। औपनिवेशिककाले त्रिंशत्तमे दिने डिसेम्बर मासे १८६५ तमे वर्षे बम्बई नगरे (अधुना मुम्बई) तस्य जन्म अभवत्। किपलिंगः मुख्य
रुडयार्ड किपलिंग


प्रसिद्धः ब्रिटिशलेखकः कविश्च रुडयार्ड किपलिंगः सत्तरवर्षीय आयुषि अष्टादशे जनवरी मासे १९३६ तमे वर्षे लन्दन नगरे निधनं प्राप्तवान्। औपनिवेशिककाले त्रिंशत्तमे दिने डिसेम्बर मासे १८६५ तमे वर्षे बम्बई नगरे (अधुना मुम्बई) तस्य जन्म अभवत्। किपलिंगः मुख्यतया स्वस्य ग्रन्थैः प्रसिद्धः अस्ति यथा द जंगल बुक (१८९४), किम् (१९०१), द मैन हू वुड बी किंग (१८८८) इत्यादयः तथा च तेन रचिताभिः कविताभिः। तेन लिखितं बालसाहित्यं कालजयीषु कृतिषु गण्यते। १९०७ तमे वर्षे साहित्यविषये सः नोबेलपुरस्कारेण सम्मानितः अभवत्। पुरस्कारस्य प्रशस्तिपत्रे उक्तं यत् आलोचनाशक्तेः महत्वं, कल्पनायाः मौलिकता, विचाराणां पौरुषं तथा असाधारणप्रतिभा एते गुणाः अस्य प्रसिद्धलेखकस्य रचनासु विश्वे प्रकाशन्ते।

अन्याः महत्त्वपूर्णाः घटनाः

२०२० तमे वर्षे झारखण्डस्य पूर्वमुख्यमन्त्री अर्जुन मुण्डा भारतीयधनुर्विद्यासंघस्य नूतनाध्यक्षः निर्वाचितः।

२००९ तमे वर्षे सौरभ गाङ्गुल्यः बंगालक्रिकेटसंघेन सुवर्णदण्डेन सम्मानितः।

२००८ तमे वर्षे उत्तरप्रदेशस्य मुख्यमन्त्रिणो मायावत्याः अध्यक्षतायां सम्पन्नायां मन्त्रिपरिषदः उपवेशने निजविश्वविद्यालयानां स्थापनायै दिशानिर्देशाः अनुमोदिताः।

२००७ तमे वर्षे विश्वस्य सर्ववृद्धा महिला जूली विनफ्रेड बर्टरंडा कनाडादेशे निधनं प्राप्तवती।

२००६ तमे वर्षे संयुक्तराज्येषु सर्वोच्चन्यायालयेन इच्छामृत्यौ अनुमतिः दत्ता।

२००५ तमे वर्षे सर्वोच्चन्यायालयेन सांसदेभ्यः पेट्रोलपम्पवितरणं न कर्तव्यमिति अनुशंसा कृता। त्रयाणां कैरेबियादेशानां त्रिनिदाद टोबेगो ग्रेनेडा सेंट विसेंट ग्रेन्डाइस च प्रधानमन्त्रिणः राजनीतिकैक्यस्य प्रस्तावं कृतवन्तः।

२००४ तमे वर्षे भारतदेशेन एकदिवसीयक्रिकेटशृङ्खलायां आस्ट्रेलियादेशः एकोनविंशतिरणैः पराजितः।

२००३ तमे वर्षे लीबिया संयुक्तराष्ट्रमानवाधिकारआयोगस्य अध्यक्षपदे नियुक्तः।

२००२ तमे वर्षे संयुक्तराज्याः भारताय अत्याधुनिकशस्त्रप्रदानाय सहमताः। कॉलिन पावेलः उक्तवान् यत् पाकिस्तानः आतंकवादीनां विरुद्धं कार्यं करोतु तदा एव भारतः वार्तां करिष्यति। पश्चिमआफ्रिकादेशे सियरालियोने गृहयुद्धस्य समाप्तिः अभवत्।

२००१ तमे वर्षे लारेंट काविलस्य हत्यायाः अनन्तरं तस्य पुत्रः काङ्गोदेशस्य सत्तां स्वीकृतवान्।

१९९७ तमे वर्षे नफीसा जोसेफ् मिस् इण्डिया अभवत्।

१९८९ तमे वर्षे चेकोस्लोवाकियादेशे लक्षाधिकजनाः स्वातन्त्र्यसत्यमानवाधिकारसमर्थने प्रदर्शनं कृतवन्तः।

१९८७ तमे वर्षे लन्दने चत्वारिंशत् देशानां प्रचारमाध्यमप्रतिनिधयः मिलित्वा सेन्सरशिपविरुद्धं संघर्षघोषणां कृतवन्तः।

१९८६ तमे वर्षे दक्षिणयमनस्य राजधानी अदन नगरे तीव्रसंघर्षस्य आरम्भे विदेशीनागरिकाः पलायिताः।

१९७६ तमे वर्षे फ्रान्सदेशेन जासूसीदोषारोपेण चत्वारिंशत् सोवियतअधिकारीणः निष्कासिताः।

१९७४ तमे वर्षे इजरायल मिस्रदेशयोः मध्ये शस्त्रसमझौतं सम्पन्नम्।

१९७३ तमे वर्षे अमेरिकादेशः उत्तरवियतनामदेशश्च शान्तिसहमतस्य पाठसज्जार्थं वार्ताकारसभायाः घोषणां कृतवन्तौ।

१९६८ तमे वर्षे अमेरिका सोवियतसंघश्च परमाणुशस्त्रनियन्त्रणसन्धेः प्रारूपे सहमतौ अभवताम्।

१९६३ तमे वर्षे फ्रान्सदेशः यूरोपीयसाझाबाजारात् ब्रिटेनस्य पृथक्करणस्य वकालतां कृतवान्।

१९६२ तमे वर्षे अमेरिकादेशेन नेवाडाप्रदेशे परमाणुपरीक्षणं कृतम्।

१९६० तमे वर्षे अमेरिका जापानदेशयोः संयुक्तरक्षासमझौतं सम्पन्नम्।

१९५९ तमे वर्षे महात्मागान्धेः सहचरी मीरा बेन भारतदेशं त्यक्तवती।

१९५४ तमे वर्षे फनफानी इटलीदेशे सर्वकारगठनं कृतवान्।

१९५२ तमे वर्षे मिस्रदेशे ब्रिटेनविरोधी दङ्गाः अभवन्।

१९५१ तमे वर्षे नीदरलैण्डदेशे मिथ्यापरीक्षणयन्त्रस्य प्रथमप्रयोगः अभवत्।

१९४५ तमे वर्षे सोवियतसेना पोलाण्डदेशस्य कराकोव नगरे प्रविष्टा जर्मनीदेशं प्रत्यावर्तयितवती।

१९३० तमे वर्षे रवीन्द्रनाथटैगोरः महात्मागान्धेः साबरमतीआश्रमं द्रष्टुम् आगतवान्।

१९१९ तमे वर्षे बेंटले मोटर्स लिमिटेड् संस्थापिता।

१८९६ तमे वर्षे एक्सरेयन्त्रस्य प्रथमप्रदर्शनं कृतम्।

१८६६ तमे वर्षे मेल्बोर्ननगरे वेस्ले महाविद्यालयः स्थापितः।

१७७८ तमे वर्षे जेम्स कुकः हवाईद्वीपसमूहस्य अन्वेषणं कृत्वा तस्य नाम सैण्डविच् आयलैण्ड् इति अकरोत्।

जन्मानि

१९८५ तमे वर्षे मनीषा लाम्बा बॉलिवुडचलचित्रनायिका जाता।

१९७८ तमे वर्षे लोंगजम थम्बो सिंहः मणिपुरदेशस्य द्वितीयमुख्यमन्त्री आसीत्।

१९७८ तमे वर्षे अपर्णा पोपट् भारतस्य श्रेष्ठबैडमिण्टनक्रीडिकासु एका।

१९७२ तमे वर्षे विनोद काम्बली क्रिकेटक्रीडिकः जातः।

१९५९ तमे वर्षे आचार्य देवव्रतः हरियाणास्थकुरुक्षेत्रगुरुकुलस्य प्रधानाचार्यः तथा गुजरातराज्यपालः।

१९५१ तमे वर्षे आरिफ् मोहम्मद् खानः भारतीयराजनीतिज्ञः बिहारराज्यपालः।

१९४२ तमे वर्षे मुहम्मद् अली विश्वविख्यातः मुक्केबाजः जातः।

१९३५ तमे वर्षे वीर बहादुर सिंहः भारतीयराजनेता जातः।

१९३३ तमे वर्षे जगदीश शरण वर्मा भारतस्य सप्तविंशतितमः मुख्यन्यायाधीशः जातः।

१९२७ तमे वर्षे सुन्दरम् बालचन्द्रन् वीणावादकः जातः।

१८४१ तमे वर्षे महादेव गोविन्द रानाडे महाराष्ट्रदेशस्य विद्वान् जातः।

निधनानि

२०१३ तमे वर्षे दुलारी भारतीयचलचित्रस्य प्रसिद्धा नायिका निधनं प्राप्तवती।

२००३ तमे वर्षे हरिवंश राय बच्चनः हिन्दीभाषायाः प्रसिद्धः कविः लेखकश्च निधनं प्राप्तवान्।

१९९६ तमे वर्षे एन टी रामारावः राजनीतिज्ञः अभिनेता च निधनं प्राप्तवान्।

१९७८ तमे वर्षे भीम सेन सच्चरः स्वातन्त्र्यसेनानी राजनीतिज्ञश्च निधनं प्राप्तवान्।

१९७६ तमे वर्षे ज्ञानी गुरमुख सिंह मुसाफिरः पंजाबीभाषायाः विख्यातः साहित्यकारः निधनं प्राप्तवान्।

१९६६ तमे वर्षे बद्रीनाथ प्रसादः प्रसिद्धः गणितज्ञः निधनं प्राप्तवान्।

१९६३ तमे वर्षे लक्ष्मी नारायण साहू उडीशादेशस्य समाजसेवी निधनं प्राप्तवान्।

१९५५ तमे वर्षे सआदत हसन मंटो प्रसिद्धः कथाकारः लेखकः पत्रकारश्च निधनं प्राप्तवान्।

१९४७ तमे वर्षे कुन्दन लाल सहगलः प्रसिद्धः गायकः अभिनेता च निधनं प्राप्तवान्।

१९३६ तमे वर्षे रुडयार्ड किपलिंगः नोबेलपुरस्कारविजेता ब्रिटिशलेखकः कविश्च निधनं प्राप्तवान्।

महत्त्वपूर्णे अवसरे

अन्ताराष्ट्रियचलचित्रसमारोहदिवसः दशदिवसीयः उत्सवः।

---

हिन्दुस्थान समाचार