Enter your Email Address to subscribe to our newsletters

धनबादजनपदः, १७ जनवरीमासः (हि.स.)। उप-विकास-आयुक्तः सन्नी-राजः शनिवासरे मिश्रित-भवनं, जिल्ला-परिवहन-कार्यालयं तथा जिल्ला-परिषद् भ्रमणं कृतवान्। भ्रमणकाले सः संपूर्णं परिसरं शुद्धं कर्तुं निर्देशं दत्तवान्।
सः अवदत् यत् गणतन्त्र-दिनस्य आयोजनस्य पूर्वसज्जादृष्ट्या अद्य मिश्रित-भवनं, जनपद-परिवहन-कार्यालयं तथा जिल्ला-परिषद् भ्रमणं कृतम्। अस्मिन् अवसरे सर्वेषां कार्यालयानां परिसराणां च शुद्धिकरणं, गणतन्त्र-दिनस्य अवसरे ध्वजारोहणं, कार्यालय-भवनस्य आकर्षकं विद्युत्-सज्जा च कर्तुं अन्ये निर्देशाः अपि प्रदत्ताः।
हिन्दुस्थान समाचार / Dheeraj Maithani