सत्यस्य एव विजयः अभवत्, ‘आप’दलस्य नेतृभिः देशात् क्षमा याचनीया — रेखा गुप्ता
नवदेहली, १७ जनवरीमासः (हि.स.)।दिल्ली-राज्यस्य मुख्यमन्त्री रेखा-गुप्ता अवदत् यत् आतिशी-चलचित्र-विषये अन्ततः सत्यस्यैव विजयः अभवत्। फॉरेन्सिक-साइंस-प्रयोगशालायाः प्रतिवेदनात् एतत् स्पष्टं जातं यत् उक्ते चलचित्रे कस्यापि प्रकारस्य परिवर्तनं न कृतम् अ
दिल्ली की मुख्यमंत्री रेखा गुप्ता  (फाइल फोटो)


नवदेहली, १७ जनवरीमासः (हि.स.)।दिल्ली-राज्यस्य मुख्यमन्त्री रेखा-गुप्ता अवदत् यत् आतिशी-चलचित्र-विषये अन्ततः सत्यस्यैव विजयः अभवत्। फॉरेन्सिक-साइंस-प्रयोगशालायाः प्रतिवेदनात् एतत् स्पष्टं जातं यत् उक्ते चलचित्रे कस्यापि प्रकारस्य परिवर्तनं न कृतम् अस्ति। अतः आम-आदमी-पदलस्य नेतृभिः देशात् क्षमा याचनीया।

मुख्यमन्त्रिणी शनिवासरे “एक्स” सञ्चालके प्रकाशिते सन्देशे अवदत् यत् शीतकालीन-सत्रे ६ जनवरी-दिने विधानसभायां नेता-प्रतिपक्षेण आतिशी-इत्यनया गुरूणां बलिदान-विषये कृतम् अमर्यादितं लज्जास्पदं च वक्तव्यं युक्तं यथार्थं च अस्ति। विधानसभाया: कार्यवाही-विषयकस्य अस्य चलचित्रस्य कस्यापि प्रकारस्य परिवर्तनं न कृतम् अस्ति।

मुख्यमन्त्रिणी अवदत् यत् स्वदोषम् अस्वीकृत्वा ‘आप’ दलं सत्यं दमनं कर्तुं पञ्जाब-राज्य-सर्वकारं, पञ्जाब-आरक्षिणं तथा पञ्जाब-फॉरेन्सिक-प्रयोगशालां च आश्रितवान् — एतत् अत्यन्तं दुर्भाग्यपूर्णं लज्जास्पदं च अस्ति। सा आरोपं कृतवती यत् ‘आप’ दलस्य राष्ट्रिय-संयोजकस्य अरविन्द-केजरीवालस्य संरक्षणे पञ्जाब-सर्वकारस्य संस्थाः अस्य सम्पूर्णस्य प्रकरणस्य दमनाय दुरुपयोजिताः, यत् निन्दनीयम् अस्ति।

मुख्यमन्त्रिणी अवदत् यत् फॉरेन्सिक-विज्ञानस्य प्रौद्योगिक्या तथा दृढ-साक्ष्यैः अद्य एषां षड्यन्त्रं प्रकटं कृतम् अस्ति। गुरूणाम् अपमानस्य कृते ‘आप'दलस्य नेतृभिः देशात् क्षमा याचनीया इति सा स्पष्टम् अवदत्।

हिन्दुस्थान समाचार / अंशु गुप्ता