सपनों और अपनों के मध्ये संतुलनमेव अद्यतनी सर्वतो महती परिस्थितिः - गौर गोपाल दासः
जयपुरम्, 17 जनवरीमासः (हि.स.)। जयपुरे प्रवर्तमाने जयपुर साहित्य महोत्सवे प्रसिद्धः प्रेरणावक्ता गौरगोपालदासः शनिवासरे एकस्मिन् सत्रे स्वग्रन्थस्य यू कैन हैव इट ऑल अनलॉक द सीक्रेट टू ए ग्रेट लाइफ इति विषयं विस्तरेण विवेचितवान्। सः जीवने स्वप्नानां
मोटिवेशनल स्पीकर और संत गौर गोपाल दास


जयपुरम्, 17 जनवरीमासः (हि.स.)।

जयपुरे प्रवर्तमाने जयपुर साहित्य महोत्सवे प्रसिद्धः प्रेरणावक्ता गौरगोपालदासः शनिवासरे एकस्मिन् सत्रे स्वग्रन्थस्य यू कैन हैव इट ऑल अनलॉक द सीक्रेट टू ए ग्रेट लाइफ इति विषयं विस्तरेण विवेचितवान्। सः जीवने स्वप्नानां सम्बन्धानां च मध्ये सन्तुलनस्य महत्त्वं विशेषतया निरूपितवान्।

जैसलमेरनगरे सम्पन्नायाः एकस्य कोलाहलपूर्णस्य विवाहस्य पृष्ठभूमौ आधारितेयम् आख्यायिका शनैः शनैः अस्माकं सर्वेषां अन्तःस्थितान् गूढान् भयांश्च आशांश्च प्रकाशयति। गौरगोपालदासः अवदत् यत् अद्यतनकाले सर्वातिशयम् आव्हानं स्वप्नैः सह अप्नानां मध्ये सन्तुलनं स्थापयितुम्। प्रायेण नवनवतिशतं जनाः एतत् सन्तुलनं कर्तुं न शक्नुवन्ति। तथापि सन्तुलनस्य अर्थः परिपूर्णजीवनं न भवति अपि तु स्वनिर्णयेषु अपराधबोधरहितं जीवनं यापनम् इति।

अस्मिन् सत्रे सः उद्देश्यस्य सन्तुलनस्य च माइण्डफुल् जीवनपद्धतेः कलायाश्च विषये उक्तवान्। हास्येन सहानुभूत्या च ज्ञानयुक्तेन च भाषणेन सः अस्मान् जीवनस्य सुन्दरजटिलताः समर्थतया स्वीकर्तुं आत्मकरुणां सम्यक् दृष्टिकोणं च अवलम्बितुं प्रेरितवान्।

सम्बन्धान् प्रति भाषमाणः सः अवदत् यत् अस्माकं जीवनस्य अधिकांशी सम्बन्धाः परिवारात् एव आरभन्ते। प्रेमः क्रोधः क्षमा अर्थव्यवस्थापनं उपेक्षा वा एताः सर्वाः प्रवृत्तयः परिवारात् एव आगच्छन्ति। अनुभवाः अस्मान् रक्तध्वजान् हरितध्वजान् च चिन्हितुं शिक्षयन्ति।

सः अवदत् यत् सम्बन्धाः एव सर्वाधिकं महत्त्वं वहन्ति। कियत्कालं यावत् एकाकी भविष्यसि। कश्चन अवश्यं आवश्यकः यः सह स्वकथां संविभज्येत। धनं सफलतां च अवशिष्यन्ते किन्तु यदि एकाकी भविष्यति तेषां कः लाभः। सः अपि उक्तवान् यत् प्रत्येकस्य जनस्य जीवने कश्चन आन्तरिकः भारः अस्ति यः अन्तःकरणे सततं पीडां जनयति।

सः कथितवान् यत् जनाः मृत्युम् अनावश्यकं निन्दन्ति यतः वास्तविकं दुःखं तु जीवने एव निहितम्। सः उपदिष्टवान् यत् परिपूर्णतायाः अन्वेषणे स्वयम् अनावश्यकं दाबं न दद्यात् यतः जीवनं स्वभावतः अपूर्णमेव भवति। प्रत्येकः जनः समाजस्य वाक्यानि श्रोतव्यः तथा च आत्मदोषारोपणात् स्वं विमोचयितुं प्रयत्नं कर्तव्यः।

---------------

हिन्दुस्थान समाचार