केजीएमयूपरिसरात् अपसरितानि अवैधमजारस्थलानि
लखनऊ,17 जनवरीमासः (हि.स.)। किङ्ग् जार्ज् चिकित्साविश्वविद्यालयस्य (केजीएमयू) परिसरान्तर्गताः सर्वाः अवैधमजाराः अपसारयितुं निर्णयः कृतः अस्ति। एतदर्थं केजीएमयू प्रशासनं शीघ्रमेव कार्यवाहीं आरभिष्यति। केजीएमयू प्रवक्ता डॉ. के. के. सिंहः अवदत् यत् कति
नेत्र रोग विभाग के पीछे खड़ी मजार


ट्रामा सेंटर में बनी मजार


क्वीन मेरी के मुख्य गेट के बगल में बनी मजार


मजार


लखनऊ,17 जनवरीमासः (हि.स.)। किङ्ग् जार्ज् चिकित्साविश्वविद्यालयस्य (केजीएमयू) परिसरान्तर्गताः सर्वाः अवैधमजाराः अपसारयितुं निर्णयः कृतः अस्ति। एतदर्थं केजीएमयू प्रशासनं शीघ्रमेव कार्यवाहीं आरभिष्यति। केजीएमयू प्रवक्ता डॉ. के. के. सिंहः अवदत् यत् कतिपयाः मजाराः पूर्वमेव अपसारिताः सन्ति। या मजाराः अवशिष्टाः सन्ति ताः नियमानुसारं कार्यवाहीं कृत्वा अपसारयिष्यन्ते। केजीएमयू नेत्ररोगविभागस्य पृष्ठभागे स्थितां मजारां एकस्मिन् पार्श्वे स्थानान्तरितं करिष्यन्ति, येन रिक्तभूमौ निर्माणकार्यं कर्तुं शक्यते।

केजीएमयू परिसरेषु स्थिताः मजारस्थलानि—केजीएमयू नेत्ररोगविभागस्य पृष्ठतः विंशतिसहस्र-वर्गफुट् परिमिते क्षेत्रे एका मजार अस्ति। एप्रिल् २०२५ तमे मासे अतिक्रमण-अपसारणाय गतायां प्रशासकीयदलायां आक्रमणम् अभवत्। पुलिसदलेन तत्र स्थिताः आपणाः अपसारिताः, किन्तु मजार अद्यापि तिष्ठति। तथैव केजीएमयू ट्रॉमा सेन्टरस्य पार्श्वे दक्षिणदिशायां एका मजार निर्मिता अस्ति। अपरं क्वीनमेरी परिसरे ‘पीर-ए-मुर्शिद् हाजी हरमैन शाह’ इत्यस्य मजार अस्ति, या क्वीनमेरी-द्वारस्य दक्षिणपार्श्वे स्थिता। अस्याः मजारायाः परिसरः अत्यन्तं विशालः अस्ति। अत्र उर्स् महोत्सवस्य आयोजनं अपि इतेजामिया समित्या क्रियते।

तथैव नूतन-ओपीडी भवनस्य नूतन-दन्तचिकित्साभवनस्य च मध्ये ‘दरगाह हज़रत् मख्दूमशाह मीना शाह’ इत्यस्य मजार अस्ति। अस्याः मजारायाः परिसरे आपणाः अपि स्थापिताः सन्ति, अन्तःपरिसरः अपि अतीव संवेदनशीलः अस्ति। डालीगञ्जस्थिते केजीएमयू आरएलसी भवनस्य समीपे अपि एका मजार अस्ति। अस्याः मजारायाः अपसारणाय पूर्वमपि एकदा प्रशासनिकं दलम् आगतम् आसीत्, किन्तु केजीएमयू प्रशासनस्य शिथिलवृत्त्या सा मजार न अपसारिता। तथैव केजीएमयू पल्मोनरी क्रिटिकल केयर मेडिसिन विभागस्य ओपीडी भवनस्य समीपे अपि एका मजार अस्ति।

विहिपद्वारा मजार-अपसारणस्य याचना कृता—केजीएमयू परिसरे ‘लव जिहाद’ सम्बन्धी प्रकरणस्य प्रकाशनानन्तरं विश्वहिन्दूपरिषदेन केजीएमयू परिसरे स्थितानां अवैधमजाराणां अपसारणस्य याचना कृता आसीत्। ‘लव जिहाद’ प्रकरणे डॉ. रमीजः कारागारं प्रेषितः अस्ति। प्रान्तीयसंगठनमन्त्री अवदत् यत् केजीएमयू सम्बद्धं ‘लव जिहाद’ विषयं सर्वप्रथमं विहिपेन एव उद्घाटितं तथा कार्यवाही कृता। आगामिकाले विहिपः शासन-प्रशासनस्य सहयोगेन एताः मजाराः अपि अपसारयितुं प्रयत्नं करिष्यति।

हिन्दुस्थान समाचार