बेंगलुरौ विनिर्मास्यते 1,000 विष्टार धर्मार्थ सुपरविशिष्टचिकित्सालयः, 4,000 कोटि रुप्यकाणां व्ययं करिष्यति अजीम प्रेमजी फाउंडेशन
बेंगलुरुः, 17 जनवरीमासः (हि.स.)।कर्नाटकराज्यस्य राजधानी बेंगलुरुनगरे शीघ्रमेव सहस्रशय्यायुक्तं धर्मार्थं सुपरविशेषज्ञचिकित्सालयं तथा मानवबह्वङ्गप्रत्यारोपणचिकित्सालयं निर्मीयते। अस्य परियोजनायाः कृते प्रायः चत्वारि सहस्राणि कोटिरूप्यकाणि व्ययः भविष
Cm


बेंगलुरुः, 17 जनवरीमासः (हि.स.)।कर्नाटकराज्यस्य राजधानी बेंगलुरुनगरे शीघ्रमेव सहस्रशय्यायुक्तं धर्मार्थं सुपरविशेषज्ञचिकित्सालयं तथा मानवबह्वङ्गप्रत्यारोपणचिकित्सालयं निर्मीयते। अस्य परियोजनायाः कृते प्रायः चत्वारि सहस्राणि कोटिरूप्यकाणि व्ययः भविष्यति, यं अजीमप्रेमजीप्रतिष्ठानं वहिष्यति। एतां सूचनां मुख्यमंत्री सिद्धारमैयः शनिवासरे विधानसौधस्य बैंक्वेटहॉलमध्ये दत्तवान्।

मुख्यमन्त्रिणा अवेदितं यत् चिकित्साशिक्षाविभागस्य अजीमप्रेमजीप्रतिष्ठानस्य च मध्ये चिकित्सालयनिर्माणस्य तथा व्यवस्थापनस्य विषये समझौतापत्रे हस्ताक्षराणि कृतानि सन्ति। अस्य समझौतानुसारं प्रतिष्ठानं आगामिषु पञ्चवर्षेषु सहस्रशय्यायुक्तस्य धर्मार्थसुपरविशेषज्ञचिकित्सालयस्य मानवबह्वङ्गप्रत्यारोपणचिकित्सालयस्य च निर्माणार्थं प्रायः चत्वारि सहस्राणि कोटिरूप्यकाणि व्ययिष्यति।

मुख्यमंत्री सिद्धारमैयः अवदत् यत् अजीमप्रेमजीप्रतिष्ठानेन धर्मार्थसुपरविशेषज्ञचिकित्सालयानां मानवबह्वङ्गप्रत्यारोपणचिकित्सालयानां च निर्माणार्थं सहस्रकोटिरूप्यकपरिमिताः स्वास्थ्यसम्बद्धाः समझौताः कृताः सन्ति। अस्य परियोजनायाः कृते राज्यसरकार बेंगलुरुनगरे स्थिते राजीवगान्धीवक्षोरोगचिकित्सालयपरिसरे दशएकडपरिमितां भूमिं नवतनवतिवर्षाणां कालावधये पट्टे दातुं सम्मतिं दत्तवती।

सः अवदत् यत् एतस्मिन् महत्कार्ये राज्यसरकार अजीमप्रेमजीप्रतिष्ठानस्य कृतज्ञा अस्ति। मुख्यमंत्री एतां परियोजनाम् उदात्तां मानवीयां च इति वर्णयित्वा अवदत् यत् निःशुल्कस्वास्थ्यसेवाप्रदानं अत्यन्तं प्रशंसनीयं कार्यम् अस्ति, येन सामान्यजनानां विशेषतः आवश्यकताग्रस्तवर्गस्य महदुपकारः भविष्यति।

अस्मिन् अवसरे अजीमप्रेमजीप्रतिष्ठानस्य मुख्यकार्यकारीअधिकारी अनुरागबेहारः अवदत् यत् संस्था सार्वजनिकस्वास्थ्यव्यवस्थासु विश्वासं करोति, ताश्च दृढीकर्तव्या इति मन्यते। सः अवदत् यत् स्वास्थ्यस्य आरम्भः आशाकार्यकर्तृभ्यः प्राथमिकस्वास्थ्यकेन्द्रेभ्यश्च भवति। अस्माकं मुख्यं लक्ष्यं जनानां रोगग्रस्ततां निवारयितुं भवेत्।

सः कर्नाटकराज्यं सक्रियराज्यम् इति निर्दिश्य अवदत् यत् अत्र अधिकारिणः प्रशासनं च स्वास्थ्यव्यवस्थायाः सुदृढीकरणाय परस्परसमन्वयेन कार्यं कुर्वन्ति, यत् अत्यन्तं प्रशंसनीयं अस्ति।

-----------

हिन्दुस्थान समाचार