Enter your Email Address to subscribe to our newsletters

मुम्बई-नगरम्, १७ जनवरीमासः (हि.स.)। महाराष्ट्र-राज्यस्य २९ नगर-निगमेषु सम्पन्ने निर्वाचने भारतीय-जनता-पक्षः (भा.ज.पा.) प्रथम-स्थानं प्राप्तवान्। एतेषु नगर-निगमेषु समग्रतया २८६९ पार्षदेषु भा.ज.पा.-पक्षस्य एकाकिनः एव १४४१ पार्षदाः विजयीभूताः सन्ति। मुख्यमन्त्री देवेंद्र-फडणवीसः तथा प्रदेश-भा.ज.पा.-अध्यक्षः रविन्द्र-चव्हाणः विजयीभूतान् भा.ज.पा.-पार्षदान् अभिनन्दितवन्तौ।
शुक्रवासरे मतगणनानन्तरं राज्य-निर्वाचन-आयोगेन प्रकाशितेषु विजयी-पार्षद-विवरणानुसारं भा.ज.पा.-पक्षस्य १४४१ पार्षदाः निर्वाचिताः सन्ति। तथैव शिन्दे-समूहस्य शिवसेना-पक्षस्य ४०८ पार्षदाः निर्वाचिताः, स: च द्वितीय: महान् पक्ष: अभवत्।
कांग्रेस-पक्षस्य ३१७ पार्षदाः निर्वाचिताः, स: तृतीय: पक्ष: अभवत्। राष्ट्रवादी-कांग्रेस-पक्षस्य (अजीत-पवार) १६४ पार्षदाः, उद्धव-ठाकरे-नेतृत्वे शिवसेना-यूबीटी-पक्षस्य १५४ पार्षदाः, एम.आई.एम.-पक्षस्य १२५ पार्षदाः, राकांपा-एस.पी.-पक्षस्य ३६ पार्षदाः, मनसे-पक्षस्य १३ पार्षदाः तथा २२१ निर्दलीय-पार्षदाः निर्वाचिताः सन्ति। राज्य-निर्वाचन-आयोगस्य विवरणानुसारं भा.ज.पा.-पक्षः स्वबलात् १३ नगर-निगमेषु महापौरान् निर्मास्यति। अपि च प्रायः १२ नगर-निगमेषु भा.ज.पा. सत्तायां सहभागी भविष्यति।
प्रदेश-भा.ज.पा.-अध्यक्षः रविन्द्र-चव्हाणः सर्वेभ्य: भा.ज.पा.-नगरसेवकेभ्य: विजयस्य शुभेच्छाः दत्तवान्। सः अद्य अवदत् यत् नगर-निगम-निर्वाचनेषु एष: महान् विजयः स्वच्छ-प्रशासनस्य विकासस्य च नाम्ना प्राप्त:। अतः भा.ज.पा.-पत्रकेण विजयीभूताः पार्षदाः विकासं स्वच्छ-प्रशासनं च प्रधानतया स्वीकरिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता