Enter your Email Address to subscribe to our newsletters

उज्जयिनीनगरम्, १७ जनवरीमास: (हि.स.)। भगवतः महाकालस्य पावन-नगरी-उज्जयिन्याम् आयोजिते पञ्चदिवसीय-महाकाल-महोत्सवे चतुर्थे दिने अद्य शनिवासरे महाकाल-लोके विविधाः सांस्कृतिक-प्रस्तुतयः आयोजयिष्यन्ते, यत्र सङ्गीतस्य भक्तेः च अनुपमः सङ्गमः द्रष्टुं लप्स्यते।
आयोजक-संस्थायाः वीर-भारत-न्यासस्य सचिवः श्रीराम-तिवारी अवदत् यत् कार्यक्रमस्य शुभारम्भः सायं सप्तवादने भविष्यति। अस्मिन् कार्यक्रमे सुगम-सङ्गीतस्य प्रमुखा प्रस्तुति: भविष्यति, यत्र श्रेयश-शुक्ला-सहित-वाद्यदलं (इन्दौरनगरात्) तथा विपिन-अनेज-सहित-वाद्यदलं (मुम्बईनगरात्) मधुरां भावपूर्णां च संगीतमयीं प्रस्तुतिं करिष्यन्ति।सः अवदत् यत् वीर-भारत-न्यासेन महाकालेश्वर-मन्दिर-प्रबन्ध-समित्या च संयुक्त-तत्त्वावधाने आयोजिते महाकाल-महोत्सवे अद्य लोक-संस्कृतेः विविध-वर्णैः अलङ्कृता सन्ध्या भविष्यति। अस्यां सन्ध्यायां जनजातीय-नृत्यानि तथा लोक-नृत्यानि मनोहराः प्रस्तुतयः भविष्यन्ति।
अत्र समाविष्टानि— कोरकू-जनजातीय-गुदली-नृत्यम् – मंशारामेण सह सहचरैः (हरदा), गणगौर-नृत्यम् – अनुजा-जोशी सह सहचरैः (खण्डवा), डिमरिया-नृत्यम् – लीलाधर-रैकवारेण सह सहचरैः (सागर),राठवा-जनजातीय-राठ-नृत्यम् -विजयभाई-राठवा-इत्यनेश सह सहचरैः (बड़ौदा)। अनेनैव सह “कला-यात्रा” अपि आयोजयिष्यते, यत्र मल्लखम्ब-दलं योगेश-मालवीयेन सहितम् (उज्जयिनी) स्व-कौशलं प्रदर्शयिष्यति। कला-यात्रायाः मार्गः बुधवारिया–नव-मार्ग–सती-द्वार–गोपाल-मन्दिर–महाकाल-लोक: इति भविष्यति।
विपिन-अनेजः — सा वाणी या सङ्गीतस्य मायां सृजति। स्वस्य मधुरया, भावपूर्णया, बहुविधया च वाण्या देशे विदेशे च श्रोतॄणां हृदयानि आकर्षयन् प्रसिद्धः पार्श्व-गायकः विपिन-अनेजः अद्य भारतीय-सङ्गीत-जगति अत्यन्तं प्रतिष्ठितेषु नामसु गणितः अस्ति। चलचित्रस्य जज़्बा इति चित्रपटस्य लोकप्रिय-गीतस्य “जाने तेरे शहर का” इत्यस्य माध्यमेन सः व्यापकां ख्यातिं प्राप्नोत्।
तस्य प्रतिभायाः प्रमाणं भवति यत् सः अलीक-अम्बानी-राधिका-अम्बानी-विवाह-महोत्सवे अपि उत्कृष्टां प्रस्तुतिं दत्त्वा श्रोतॄन् मन्त्रमुग्धान् अकरोत्। तेन “51 ग्लोरियस डेज़” नामक-एल्बमध्ये यो-यो-हनी-सिंहेन सह “नेवर क्राइड” इति ऊर्जावान् गीतः अपि प्रकाशितः, यत्र तस्य वैशिष्ट्यपूर्णा बहुआयामी-प्रतिभा स्पष्टं दृश्यते।
ओटीटी-मञ्चेष्वपि तस्य स्वर-माधुर्यस्य प्रभावः अविच्छिन्नः अस्ति। राम-कपूर-अभिनीतायां लोकप्रिय-श्रृङ्खलायां मिस्ट्री इत्यत्र गीयमानं “कुछ इस पार” इति गीतं दर्शकानां मध्ये अत्यन्तं लोकप्रियम् अभवत्।
अमेरिकादेशे आयोजिते Global Film & Music Festival इत्यस्मिन् सः Best Singer & Live Performer इति सम्मानं प्राप्तवान्। सः Zee Sa Re Ga Ma Pa इति कार्यक्रमे पञ्च-सत्राणि यावत् महाजूरी-सदस्यरूपेण अपि कार्यं कृतवान्। शतकोटि-अधिक-स्ट्रीम्स् संख्या पारं कृत्वा, दक्षिण-भारतीय-चलचित्र-जगति अपि तेन स्व-प्रभावः दर्शितः। विश्वे सहस्राधिक-प्रत्यक्ष-प्रस्तुतयः दत्त्वा, सः अद्यापि राष्ट्रिय-अन्ताराष्ट्रिय-स्तरे अत्यन्तं प्रियः कलाकारः अस्ति।
प्रत्येकस्मिन् मञ्चे अविस्मरणीयं सङ्गीत-अनुभवं दत्त्वा विपिन-अनेजः भारतीय-सङ्गीत-परम्परायै नूतनान् आयामान् ददाति।
हिन्दुस्थान समाचार / अंशु गुप्ता