Enter your Email Address to subscribe to our newsletters

नवदेहली, १७ जनवरीमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी विदेश-राज्य-मन्त्री पवित्र-मार्गेरिटा-द्वारा असम-राज्ये गत-एकादश-वर्षेषु शान्तेः, संस्कृतेः, आधारभूत-संरचनायाः च क्षेत्रेषु सम्पन्नेषु महत्त्वपूर्णेषु संशोवनकार्येषु लेख-लेखनं कृत्वा तम् अभिनन्दितवान्।
प्रधानमन्त्री-कार्यालयस्य आधिकारिके “एक्स” (X) सञ्चालके पवित्र-मार्गेरिटा-प्रेषितस्य सन्देशस्य पुनः प्रकाशनं कृत्वा उक्तं यत् सः तादृशस्य विकास-आदर्शस्य समर्थनं कृतवान् यः आर्थिक-विकासं पर्यावरणीय-दायित्वेन सह सन्तुलयति, यतः असम-राज्यं “विकसित-भारत २०४७” इति दृष्टेः अनुरूपं “विकसित-असम” दिशि शीघ्रम् अग्रसरः भवति।
मार्गेरिटा “एक्स” सञ्चालके प्रकाशिते आङ्ग्ल-भाषायाः पत्रिकायां “मोदी-विचारः परिवर्तनस्य च एकं दशकं” इति शीर्षकयुक्ते लेखे अवदत् यत् प्रधानमन्त्री मोदी अद्य असम-राज्ये द्विदिवसीय-प्रवासाय आगतवान् अस्ति। सः अवदत्— “मया गत-दश-वर्षेषु तस्य नेतृत्वेन जातानां परिवर्तनानां तथा तस्य दृष्टेः विषये लिखितम्।”
मार्गेरिटा स्व-लेखे प्रधानमन्त्रीमोदिन: नेतृत्वे गत-दश-वर्षेषु असम-राज्ये सम्पन्नेषु परिवर्तन-कार्येषु विचारान् व्यक्तवान्। सः आधारभूत-संरचना-आधारित-विकासेन, आर्थिक-गतिना, भविष्यस्य कृते आत्मविश्वास-युक्तेन मार्गचित्रेण (रोडमैप्) च असम-राज्यं भारतस्य विकास-कथायाः केन्द्रस्थाने स्थापयितुम् आवश्यकम् इति अभिप्रायं व्यक्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता