मालदानगरे प्रधानमन्त्रीमोदीना ३२५० कोटि-रूप्यक-मूल्यानां रेल-मार्ग-एवं-राजमार्ग-परियोजनानां लोकार्पणं शिलान्यासं च कृतम्
कोलकातायाम्, १७ जनवरीमासः (हि.स.)। पश्चिम-बङ्गाल-राज्ये आगामि-विधानसभा-निर्वाचनात् पूर्वं प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे मालदा-नगरे ३२५०-कोटि-रूप्यक-मूल्यानां रेल-मार्ग-एवं-राजमार्ग-अवसंरचना परियोजनानां लोकार्पणं शिलान्यासं च कृतवान्। एतासां प
प्रधानमंत्री नरेंद्र मोदी


कोलकातायाम्, १७ जनवरीमासः (हि.स.)। पश्चिम-बङ्गाल-राज्ये आगामि-विधानसभा-निर्वाचनात् पूर्वं प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे मालदा-नगरे ३२५०-कोटि-रूप्यक-मूल्यानां रेल-मार्ग-एवं-राजमार्ग-अवसंरचना परियोजनानां लोकार्पणं शिलान्यासं च कृतवान्। एतासां परियोजनानां लक्ष्यं पश्चिम-बङ्गाल-राज्ये तथा पूर्वोत्तर-भारत-प्रदेशे सम्पर्क-व्यवस्थां सुदृढीकर्तुं विकासस्य गतिं च तीव्रं कर्तुम् अस्ति।

उद्घाटन-समारोहं सम्बोधयन् प्रधानमन्त्री मोदी अवदत् यत् नूतन-रेल-सेवानां शुभारम्भेन मालदा-नगरे विकासस्य वेगः अधिकः भविष्यति, येन सामान्य-जनै: सह व्यापारस्य अपि लाभः भविष्यति। वन्दे-भारत-शयनयान-रेलयान-सेवायाः शुभारम्भस्य उल्लेखं कृत्वा सः अवदत् यत् एषा देशे सौकर्यदायिका-रात्रिकालीन-यात्रायाः नूतन-युगस्य आरम्भः अस्ति।

प्रधानमन्त्री एतां रेलयान-सेवां “मेक-इन-इण्डिया” इति अभियानस्य प्रतीकम् इति निर्दिश्य अवदत् यत् एषा सेवा मातुः काली-देव्याः भूमिं मातुः कामाख्या-देव्याः भूम्या सह उत्तम-रेल-सम्पर्केण संयोजयति। प्रधानमन्त्री अवदत् यत् एषा वन्दे-भारत-शयनयान-रेलयान-सेवायाः आरम्भः एव अस्ति। रेलयाने यात्रां कुर्वन्तः जनाः तेन सह संवादे अवदन् यत् ते अत्यन्तं सौकर्यम् अनुभवन्ति।

सः अवदत्— “वयं भारतीय-रेलविभागे विश्वस्तरीय-सुविधानां विकासं कुर्मः।”प्रधानमन्त्री अवदत् यत् पश्चिम-बङ्गाल-राज्यं त्रयः नूतनाः अमृत-भारत-एक्सप्रेस-रेलयान-सेवाः अपि प्राप्तवान् अस्ति। सः अवदत् यत् भारतीय-रेलविभागः स्वदेशे एव रेलयानानि वर्गान् च निर्माय आत्मनिर्भरः भवति, येन देशस्य अर्थव्यवस्था सुदृढा भवति। “सम्पर्क-व्यवस्था अस्माकं अभियानम् अस्ति। सम्पूर्णं भारतं संयोक्तुं वयं संकल्पिताः स्मः,” इति सः अवदत्।

कार्यक्रमस्य अवसरः प्रधानमन्त्री मालदा-टाउन-रेलस्थानकात् हावड़ा–गुवाहाटी (कामाख्या) मार्गे देशस्य प्रथमां वन्दे-भारत-शयनयान-रेलयान-सेवां हरित-ध्वजेन प्रेषितवान्, गुवाहाटी-नगरात् तस्याः प्रत्यागमन-सेवां च आभासी-रूपेण प्रारब्धवान्। पूर्णतया वातानुकूलितम् एतत् शयनयान-रेलयानं यात्राकालम् अत्यल्पं करिष्यति तथा पूर्व-भारत-प्रदेशस्य पूर्वोत्तर-प्रदेशेन सह धार्मिक-पर्यटनम् आवागमनं च प्रोत्साहयिष्यति।प्रधानमन्त्री पश्चिम-बङ्गाल-राज्ये चतुर्णां प्रमुख-रेल-परियोजनानां शिलान्यासं कृतवान्। तासु— बलुरघाट–हिली-इत्यनयोः मध्ये नूतन-रेलमार्गः,न्यू-जलपाईगुड़ी-स्थाने अत्याधुनिक-माल-परिरक्षण-सुविधा, सिलीगुड़ी-लोको-शेड-उन्नयनम्, जलपाईगुड़ी-जनपदे वन्दे-भारत-रेलयानानां रक्षणार्थम् आधुनिक-सुविधानां विकासः इत्येताः परियोजनाः अन्तर्भवन्ति। एताभिः उत्तर-बङ्गाल-प्रदेशे यात्रि-माल-परिवहनं सुदृढं भविष्यति तथा रोजगार-अवसराः अपि सृज्यन्ते।

तदनन्तरं प्रधानमन्त्री न्यू-कूचबिहार–बामनहाट तथा न्यू-कूचबिहार–बॉक्सिरहाट-रेल-खण्डयोः विद्युत्करणं राष्ट्राय समर्पितवान्, येन शीघ्रं, स्वच्छं, ऊर्जाक्षमं च रेल-सञ्चालनं सम्भविष्यति।प्रधानमन्त्री आभासी-रूपेण चतुर्णां नूतनानां अमृत-भारत-एक्सप्रेस-रेलयान-सेवानां— न्यू-जलपाईगुड़ी–नागरकोई, न्यू-जलपाईगुड़ी–तिरुचिरापल्ली, अलीपुरद्वार–एसएमवीटी-बेंगलुरु, अलीपुरद्वार–मुम्बई (पनवेल) शुभारम्भं कृतवान्। तद्वत् राधिकापुर–एसएमवीटी-बेंगलुरु एक्सप्रेस तथा बलुरघाट–एसएमवीटी-बेंगलुरु-एक्सप्रेस इति द्वे नूतने LHB-वर्ग-सुसज्जिते रेलयान-सेवे अपि प्रारब्धे।

एताभिः बेंगलुरु-नगर-सदृशेषु प्रमुख-रोजगार-केन्द्रेषु गमनं सुलभं भविष्यति।राजमार्ग-क्षेत्रे प्रधानमन्त्री राष्ट्रिय-राजमार्ग-31D-स्थ धूपगुड़ी–फलकाता-खण्डस्य पुनर्वास-कार्यस्य च चतुष्पंक्ति-विस्तार-कार्यस्य शिलान्यासं कृतवान्, येन उत्तर-बङ्गाल-प्रदेशे यात्रि-माल-परिवहनं अधिकं सुलभं भविष्यति।

अस्मिन् कार्यक्रमे उपस्थितः केन्द्रीय-रेल-मन्त्री अश्विनी-वैष्णवः अवदत् यत् एताः परियोजनाः देशम् आत्मनिर्भरं कर्तुं तथा कोलकाता-नगरात् गुवाहाटी-नगरं यावत् पूर्वीय-सम्पर्क-व्यवस्थां सुदृढीकर्तुं सर्वकारस्य दृढ-संकल्पं दर्शयन्ति। सः अवदत् यत् पश्चिम-बङ्गाल-राज्यस्य कृते रेल-व्यय-आवंटनं त्रिगुणितं भूत्वा अधुना १४,००० कोटि-रूप्यकाणि अभवन्।

हिन्दुस्थान समाचार / अंशु गुप्ता