देशस्य प्रथमस्य वन्दे-भारतस्य शयनयान-रेलयानस्य शुभारम्भः, प्रधानमन्त्री नरेन्द्रमोदी मालदानगरात् हरित-ध्वजं दर्शितवान्
कोलकातानगरम्, १७ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे देशस्य प्रथमस्य वन्दे-भारत-शयनयान-रेलयानस्य उद्घाटनं कृतवान्। सः मालदा-टाउन-रेलस्थानकात् हरित-ध्वजं दर्शयित्वा हावडा–गुवाहाटी (कामाख्या) वन्दे-भारत-शयनयान-रेलयानं प्रेषितवान्।
मोदी


कोलकातानगरम्, १७ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे देशस्य प्रथमस्य वन्दे-भारत-शयनयान-रेलयानस्य उद्घाटनं कृतवान्। सः मालदा-टाउन-रेलस्थानकात् हरित-ध्वजं दर्शयित्वा हावडा–गुवाहाटी (कामाख्या) वन्दे-भारत-शयनयान-रेलयानं प्रेषितवान्। उद्घाटन-दिवसे एषा रेलयान-सेवा मालदा-नगरात् आसाम-राज्यस्य कामाख्या-नगरं प्रति प्रेषिता, किन्तु नियमितरूपेण अस्याः परिचालनं हावड़ा-नगरात् भविष्यति।

अस्मिन् अवसरे प्रधानमन्त्री मोदी रेलयानस्य निरीक्षणं कृतवान् तथा लोको-चालकैः सह रेलयान-कर्मचारिभिः संवादं कृतवान्। रेलयाने उपस्थितैः विद्यालयीय-छात्रैः सह अपि सः संवादं कृतवान्। प्रधानमन्त्रिणा एषा रेलयान-सेवा “मेक-इन-इण्डिया” अभियानस्य एकं महत्त्वपूर्णम् उदाहरणं इति उक्तम्, तथा यात्रिभ्यः अल्पव्यययुक्तां, सौकर्यदायकां, शीघ्रगतियुक्तां च यात्रानुभूतिं प्रदास्यति इति अवदत्।

आधुनिक-सज्जा-समन्वितायाः अस्याः अत्याधुनिकाया शयनयान-रेलयान-सेवायाः माध्यमेन यात्रिणां न्यूनातिन्यूनं षट्-होराणां समयस्य रक्षणं भविष्यति। उद्घाटन-दिने एषा रेलयान-सेवा मालदा-टाउन-स्थानकात् प्रेषिता सती सप्तसु स्थानकेषु स्थगिता, तानि च— अलुआबाड़ी-रोड, न्यू-जलपाईगुड़ी, जलपाईगुड़ी-रोड, न्यू-कूचबिहार, न्यू-अलीपुरद्वार, न्यू-बोंगाईगांव तथा रंगिया।

रेलवे-अधिकारिणां कथनानुसारं, वन्दे-भारत-शयनयान-रेलयानं दीर्घ-दूरी-रात्रि-यात्राणां कृते विशेषरूपेण विनिर्मितम् अस्ति, यस्मिन् उत्तमा सुरक्षा-व्यवस्था, आधुनिक-सुविधाः, सौकर्यदायकाः शयनयान-वर्गा: च समाविष्टाः सन्ति।

निर्वाचन-कालस्य वातावरणे एषा रेलयान-सेवा पश्चिम-बङ्गाल-राज्याय एकं विशेषम् उपहारम् इव अपि दृष्टा भवति।

अस्याः नव-रेलयान-सेवायाः आरम्भेण पूर्वोत्तर-भारतस्य देशस्य अन्यैः भागैः सह रेल-सम्पर्कः अधिकं दृढः भविष्यति इति अपेक्षा अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता