Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ जनवरीमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी तमिलनाडु-राज्यस्य पूर्व-मुख्यमन्त्रिणः भारत-रत्न-पुरस्कृतस्य डॉ.एम.जी.रामचन्द्रनस्य जयन्त्यां तस्मै श्रद्धाञ्जलिम् अर्पितवान्।
प्रधानमन्त्री सामाजिक-माध्यम-मञ्चे “एक्स” इत्यस्मिन् पृथक्-पृथग् सन्देशेषु डॉ.एम.जी.रामचन्द्रनस्य बहुआयामि-योगदानं स्मारयन् अवदत् यत् तमिलनाडु-राज्यस्य सामाजिक-आर्थिक-विकासे तस्य भूमिका अत्यन्तं महत्त्वपूर्णा आसीत्। सः तमिल-संस्कृतेः वैश्विक-स्तरे परिचयं दातुम् अपि उल्लेखनीयम् योगदानं कृतवान्।
प्रधानमन्त्री अवदत् यत् डॉ.एम.जी.रामचन्द्रनस्य तमिलनाडु-राज्यस्य प्रगतौ योगदानम् अविस्मरणीयम् अस्ति। तमिल-संस्कृतेः लोकप्रियकरणे अपि तस्य महत्त्वपूर्णा भूमिका आसीत्। समाजस्य हिताय डॉ.एम.जी.रामचन्द्रनस्य दूरदर्शिनः चिन्तनस्य साकारकरणाय निरन्तरं प्रयासाः करिष्यन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता