वन्दे-भारत-शयनयान-रेलयानं मातुः काली-देव्याः भूमिं मातुः कामाख्या-देव्याः भूम्या सह संयोजयिष्यति — प्रधानमन्त्री मोदी
मालदानगरम्, १७ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदत् यत् अद्य पश्चिम-बङ्गाल-राज्ये रेलविकासः नूतनां गतिं नूतनांश्च आयामान् प्राप्तवान् अस्ति। एकस्मिन् पक्षे हावड़ा–गुवाहाटी-मार्गे आरब्धा देशस्य प्रथमा वन्दे-भारत-शयनयान-रेलयान
पश्चिम बंगाल के मालदा टाउन रेलवे स्टेशन से देश की पहली वंदे भारत स्लीपर ट्रेन के लोकार्पण कार्यक्रम में प्रधानमंत्री मोदी


मालदानगरम्, १७ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदत् यत् अद्य पश्चिम-बङ्गाल-राज्ये रेलविकासः नूतनां गतिं नूतनांश्च आयामान् प्राप्तवान् अस्ति। एकस्मिन् पक्षे हावड़ा–गुवाहाटी-मार्गे आरब्धा देशस्य प्रथमा वन्दे-भारत-शयनयान-रेलयान-सेवा मातुः काली-देव्याः भूमिं मातुः कामाख्या-देव्याः भूम्या सह संयोजयति। अपरस्मिन् पक्षे पश्चिम-बङ्गाल-राज्यं चतुर्भिः नूतनैः अमृत-भारत-एक्सप्रेस-रेलयानैः देशस्य उत्तरी-दक्षिणी-पश्चिम-भागैः सह नूतनां सम्पर्क-व्यवस्थां प्राप्तवान् अस्ति।

प्रधानमन्त्री नरेन्द्रमोदी पश्चिम-बङ्गालस्य मालदा-टाउन-रेलस्थानकात् देशस्य प्रथमस्य वन्दे-भारत-शयनयान-रेलयानेन सहितं विविध-रेल-मार्ग-परियोजनानां च लोकार्पणानन्तरम् आयोजिते समारोहे भाषणं कृतवान्।

अस्मिन् कार्यक्रमे केन्द्रीय-मन्त्री अश्विनी-वैष्णवः, शान्तनु-ठाकुरः, सुकान्त-मजूमदारः, पश्चिम-बङ्गाल-विधानसभायां नेता-प्रतिपक्षः शुभेन्दु-अधिकारी, सांसदः शौमिक-भट्टाचार्यः, खगेन-मुर्मुः तथा कार्तिक-चन्द्रपालः अपि उपस्थिताः आसन्।

प्रधानमन्त्री अवदत् यत् पश्चिम-बङ्गालस्य विकासाय नूतन-गति-प्रदान-अभियानम् अद्य अधिकं तीव्रम् अभवत्। भारतीय-रेलयानस्य आधुनिकीकरण-दिशि एकः अन्यः महान् चरणः उपन्यस्तः। राज्येन सह सम्बद्धानां विविध-विकास-कार्याणां शिलान्यासेन लोकार्पणेन च यात्रि-सुविधा-वृद्ध्या सह व्यापारस्य रोजगारस्य च प्रोत्साहनं भविष्यति।

प्रधानमन्त्री उवाच — “बङ्गालस्य अस्याः पावनभूमेः अद्य भारतदेशे वन्दे-भारत-शयनयान-रेलयान-सेवाया: आरम्भः भवति। एताः नूतनाः वन्दे-भारत-शयनयान-रेलयानसेवा: देशवासिनां दीर्घ-यात्राम् अधिकां सौकर्यदायकाम्, उत्कृष्टां, स्मरणीयां च करिष्यन्ति। एषा वन्दे-भारत-रेलयान-सेवा ‘मेड्-इन-इण्डिया’ अस्ति। अस्य निर्माणे भारतीयानां परिश्रमः समाविष्टः अस्ति। देशस्य एषा प्रथमा वन्दे-भारत्-शयनयान-रेलयान-सेवा मातुः काली-देव्याः भूमिं मातुः कामाख्या-देव्याः भूम्यास्सह संयोजयति। अग्रिम-काले सम्पूर्णे देशे अस्याः आधुनिकताया: रेलयान-सेवायाः विस्तारः भविष्यति।”

प्रधानमन्त्री अवदत् यत् अस्याः वन्दे-भारत-शयनयान-रेलयान-सेवायाः माध्यमेन बङ्गालस्य यून: नूतनाः अवसराः प्राप्यन्ते, क्षेत्रीय-सम्पर्क-व्यवस्था च अधिका सुदृढा भविष्यति। एषा रेलयान-सेवा आत्मनिर्भर-भारतस्य शक्तेः प्रतीकः अस्ति। सः बङ्गाल-राज्यं, आसाम-राज्यं तथा सम्पूर्णं देशम् अस्याः उपलब्धेः कृते अभिनन्दितवान्।

प्रधानमन्त्री अवदत् यत् एवमेव पश्चिम-बङ्गाल-राज्यं चतस्रः अन्याः आधुनिकाः अमृत-भारत-एक्सप्रेस-रेलयान-सेवाः अपि प्राप्तवान् अस्ति। न्यू-जलपाईगुड़ी–नागरकोई, न्यू-जलपाईगुड़ी–तिरुचिरापल्ली, अलीपुरद्वार–बेंगलुरु तथा अलीपुरद्वार–मुम्बई अमृत-भारत-एक्सप्रेस-रेलयान-सेवाभिः बङ्गालस्य विशेषतः उत्तर-बङ्गालस्य दक्षिण-पश्चिम-भारतैः सह सम्पर्कः अधिकं सशक्तः भविष्यति।

गङ्गासागर-दक्षिणेश्वर-कालीघाट-दर्शनार्थम् आगच्छन्तः यात्रिणः तथा तमिलनाडु-महाराष्ट्र-यात्रायै गच्छन्तः जनाः एताभिः रेलयान-सेवाभिः अधिकं लाभं प्राप्स्यन्ति।

प्रधानमन्त्री यात्रिभिः सह संवादस्य उल्लेखं कुर्वन् अवदत् यत् पूर्वं जनाः विदेशेषु रेलयानानां चित्राणि दृष्ट्वा चिन्तयन्ति स्म — “भारतदेशे अपि एतादृशी रेलयान-सेवा भवेत्।” अद्य तु सः स्वप्नः यथार्थः अभवत्। अधुना वैदेशीयाः अपि भारतस्य मेट्रो-रेलयानानां दृश्यानि निर्मीय जगति प्रचारयन्ति यत् भारतदेशे रेल-क्षेत्रे महत् परिवर्तनं भवति।

प्रधानमन्त्री अवदत् यत् अद्य भारतीय-रेलविभाग कायाकल्प-कालं यापयति। भारतीय-रेलविभाग: न केवलं आधुनिक: भवति, अपि तु आत्मनिर्भरः अपि भवति। रेलमार्गाणां शीघ्रं विद्युत्करणं क्रियते, रेलस्थानकानि आधुनिकीक्रियन्ते, देशे अनेकाः वन्दे-भारत्-रेलयान-सेवाः सञ्चालिताः सन्ति। रेल-इञ्जिन-यानानि, वर्गया:, मेट्रो-वर्गा: च भारतदेशे एव निर्मीयन्ते।

भारतदेश: अद्य अमेरिका-यूरोप-देशेभ्यः अधिकानि रेल-इञ्जिन-यानानि निर्माति तथा बहुभ्यः देशेभ्यः यात्री-रेलयानानि, मेट्रो-वर्गान् च निर्यातयति।

प्रधानमन्त्री अवदत् यत् तीव्र-गति-युक्तानां आधुनिक-रेलयानानां व्यापकः जालः अपि निर्मीयते, यस्य महान् लाभः निर्धन-मध्यम-वर्गीय-परिवारैः अनुभूयते। एतेन न केवलम् अर्थव्यवस्था सुदृढा भवति, अपि तु यूनां कृते व्यापकं रोजगार-सृजनम् अपि भवति।

अस्मिन् अवसरे प्रधानमन्त्री पश्चिम-बङ्गाल-राज्ये चतसृणां रेल-परियोजनानां शिलान्यासं कृतवान्, यासु बालुरघाट–हिली-इत्यनयोः मध्ये नूतन-रेलमार्गः, न्यू-जलपाईगुड़ी-स्थाने माल-परिवहन-रक्षणार्थम् आधुनिक-सुविधाः, सिलीगुड़ी-लोको-शेड-इत्यस्य उन्नयनम्, जलपाईगुड़ी-स्थाने वन्दे-भारत-रेलयान-रक्षण-सुविधानाम् आधुनिकीकरणं च अन्तर्भवन्ति। सः न्यू-कूचबिहार–बामनहाट तथा न्यू-कूचबिहार–बोक्सिरहाट-मार्गयोः विद्युत्करणं राष्ट्राय समर्पितवान्।

प्रधानमन्त्रिणाऽपि दूरदर्शन-सम्पर्केण चतस्रः नूतनाः अमृत-भारत-एक्सप्रेस-रेलयान-सेवाः हरित-ध्वजेन प्रेषिताः। LHB-वर्गै: सुसज्जिते द्वे नूतने रेलयान-सेवे — राधिकापुर–बेंगलुरु-एक्सप्रेस तथा बालुरघाट–बेंगलुरु-एक्सप्रेस — अपि शुभारम्भिते। एते रेलयान-सेवे क्षेत्रस्य यूनां, छात्राणां, IT-व्यावसायिकानां च कृते बेंगलुरु-नगरं प्रति सुरक्षितां, सरलां, सौकर्यादायकां च यात्रासुविधां प्रदास्यन्ति।

प्रधानमन्त्रिणाऽपि राष्ट्रीय-राजमार्ग-31D-स्थ धूपगुड़ी–फलकाता-खण्डस्य मरम्मत-कार्यस्य तथा चतस्र-पंक्ति-निर्माण-कार्यस्य शिलान्यासः कृतः, येन क्षेत्रीय-मार्ग-सम्पर्क-व्यवस्था उन्नता भविष्यति तथा उत्तर-बङ्गाल-प्रदेशे यात्रि-माल-परिवहनम् अधिकं सुलभं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता