Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 17 जनवरीमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी पश्चिमबङ्गालस्य मालदानगरे शनिवासरे देशस्य प्रथमां वन्देभारतस्लीपररेलयानं हरिध्वजप्रदर्शनेन प्रवर्तितवान्। एषा रेलयानः कोलकातानगरस्य हावडास्थानकात् गुवाहाटीनगरस्य कामाख्यास्थानकपर्यन्तं सञ्चलिष्यति। अस्याः दूरी ९५८ किलोमीटरमिता अस्ति, या केवलं १४ होराभिः सम्पन्ना भविष्यति, यतः वर्तमानकाले एषा यात्रा प्रायः १७ होराभिः पूर्णा भवति।
लोकार्पणसमये प्रधानमन्त्री रेलयाने उपस्थितैः बालकैः छात्रैश्च सह संवादं कृतवान्। छात्राः कविताः अपठन्, स्वानुभवान् च अवेदयन्। प्रधानमन्त्री तु तेषां हस्ताक्षरान् अदात्, स्वानुभवान् अपि साझीकृतवान्। सः रेलयानस्य चालकैः सेवकवर्गेण च सह अपि संवादं कृतवान्। स्थानके उपस्थिताः जनाः करेषु तिरङ्गध्वजं धारयन्तः प्रधानमन्त्रीं स्वागतवन्तः। अस्मिन् अवसरे स्थानके महती जनसङ्घट्टा दृष्टा।
कार्यक्रमे रेलमन्त्री अश्विनीवैष्णवः प्रधानमन्त्रीं देव्याः प्रतिमां समर्पितवान्। रेलवेमण्डलस्य सूचनानुसारं वन्देभारतस्लीपररेलयाने आरएसीव्यवस्था न भविष्यति। अस्मिन् रेलयाने कुलं १६ डिब्बाः भविष्यन्ति, येषु ११ तृतीयवातानुकूलितडिब्बाः, ४ द्वितीयवातानुकूलितडिब्बाः, १ प्रथमवातानुकूलितडिब्बश्च सन्ति। अस्याः रेलयानस्य भाडा राजधानीएक्सप्रेसादिप्रीमियमरेलयानानां भाडात् किंचित् अधिकं भविष्यति। गुवाहाटीतः हावडापर्यन्तं तृतीयवातानुकूलितवर्गस्य भाडा प्रायः २३०० रूप्यकाणि निश्चितम्।
उल्लेखनीयं यत् रेलमन्त्री वैष्णवः जनवरीमासस्य प्रथमदिने हावडागुवाहाटीमार्गे प्रथमद्वितीयतृतीयवातानुकूलितवर्गाणां सम्भाव्यभाडानां घोषणां कृतवान्।
---------------
हिन्दुस्थान समाचार