मध्यप्रदेशः राहुल-गान्धी अद्य इन्दौरम् आगमिष्यति, भागीरथपुरायां दूषित-जल-काण्डेन पीडित-परिजनैः सह मिलिष्यति
भोपालनगरम् / इन्दौरनगरम्, १७ जनवरीमास: (हि.स.)। कांग्रेसदलस्य सांसदः तथा लोकसभायां नेता-प्रतिपक्षः राहुल-गान्धी अद्य शनिवासरे एकदिवसीय-प्रवासाय इन्दौरनगरम् आगमिष्यति। सः अत्र भागीरथपुरा-क्षेत्रे दूषित-जल-काण्डेन प्रभावित-जनैः तथा मृतकानां स्वजनैः स
कांग्रेस नेता राहुल गांधी 17 जनवरी को आएंगे इंदौर


भोपालनगरम् / इन्दौरनगरम्, १७ जनवरीमास: (हि.स.)। कांग्रेसदलस्य सांसदः तथा लोकसभायां नेता-प्रतिपक्षः राहुल-गान्धी अद्य शनिवासरे एकदिवसीय-प्रवासाय इन्दौरनगरम् आगमिष्यति। सः अत्र भागीरथपुरा-क्षेत्रे दूषित-जल-काण्डेन प्रभावित-जनैः तथा मृतकानां स्वजनैः सह साक्षात्कारं करिष्यति। पीडित-परिवारैः सह राहुल-गान्धेः साक्षात्काराय कांग्रेस-दलेन प्रशासनाय चतुर्णां गृहाणां सूची समर्पिता अस्ति। भागीरथपुरायां संकीर्ण-वीथीकाः सन्ति, तेन सुरक्षायाः दृष्ट्या सुरक्षा-अभिकरणानि सतर्काणि सन्ति। संकीर्ण-मार्गेषु वाहनानि गृहम् यावत् गन्तुं न शक्नुवन्ति, अतः वीथी-कोणात् पदयात्रया राहुल-गान्धी पीडित-परिवारं प्रति गमिष्यति।

राहुल-गान्धेः इन्दौर-प्रवासात् पूर्वं शुक्रवासरस्य रात्रौ सुरक्षा-अभिकरणैः तस्य प्रवास-मार्गस्य निरीक्षणं कृतम्। पञ्चमासीय-मृतकस्य अव्यान-साहोः, गीता-बाय्याः तथा अशोक-पंवारस्य गृहेषु गमन-मार्गः अपि परीक्षितः। राहुल-गान्धी प्रभावित-परिवारैः सह संस्कार-गार्डन-उद्याने अपि साक्षात्कारं करिष्यति।

कांग्रेस-दलस्य पक्षत: सर्वेषां मृतक-परिवाराणां कृते एकैकं लक्ष-रूप्यकाणां साहाय्य-राशिः प्रदातुं घोषणापि करिष्यते। साक्षात्कारस्य समयः मध्याह्ने १२.४५ तः १.४५ पर्यन्तं भविष्यति। तदनन्तरं राहुल-गान्धी माध्यम-प्रतिनिधिभिः सह संवादं करिष्यति।

प्रदेश-कांग्रेस-अध्यक्षः जीतु-पाटवारी, पूर्व-मुख्यमन्त्री दिग्विजय-सिंहः च अन्ये बहवः वरिष्ठ-नेतारः अपि तेन सह उपस्थिताः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता