Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ जनवरीमासः (हि.स.)।तमिलनाडु-राज्यस्य पूर्व-मुख्यमन्त्री तथा भारत-रत्न-पुरस्कृतः एम.जी.रामचन्द्रनस्य जयन्त्यवसरे प्रधानमन्त्री नरेन्द्रमोदी तस्मै भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। प्रधानमन्त्री अवदत् यत् एम.जी.आर.-महाशयस्य सम्पूर्णं जीवनं दरिद्र-वञ्चित-जनानां कल्याणाय समर्पितम् आसीत्।
प्रधानमन्त्रिणा निर्गत-सन्देशे अवदत्— “विशिष्ट-व्यक्तित्वस्य धनी एम.जी.आर.-महाशयस्य जयन्त्यां तं नमामि। तमिलनाडु-राज्यस्य विकासे तस्य योगदानम् अत्यन्तम् उल्लेखनीयम् आसीत्। तमिल-संस्कृतेः देशे विदेशे च लोकप्रियकरणे अपि तस्य भूमिका महत्त्वपूर्णा आसीत्।” प्रधानमन्त्री अपि अवदत् यत् समाजस्य हिताय तस्य दूरदर्शिनः चिन्तनस्य साकारकरणाय वयं सदैव प्रयासरताः भविष्यामः।
प्रधानमन्त्री मोदी स्वस्य दृश्य-सन्देशे अवदत् यत् चलचित्रात् आरभ्य राजनैतिक-मञ्चपर्यन्तं एम्.जी.आर.-महाशयः जनानां हृदयेषु राज्यं कृतवान्। तस्य सम्पूर्णं जीवनं तथा राजनैतिक-यात्रापथं दरिद्र-वञ्चित-जनसेवायै समर्पितम् आसीत्। सः दरिद्र-जनानां सम्मानपूर्णं जीवनं सुनिश्चेतुं निरन्तरम् अथकं परिश्रमं कृतवान्।
प्रधानमन्त्री अवदत् यत् भारत-रत्न-एम.जी.आर.-महाशयस्य लक्ष्यानि पूरयितुं अद्य वयं सर्वे मिलित्वा प्रयासं कुर्मः। स्वस्य कार्यकाले सः गुणवत्तायुक्तां शिक्षाम् उत्तमानि स्वास्थ्य-सेवानि च प्राथमिकतया स्वीकृतवान्। अनेन कारणेन यूनां महिलानां च मध्ये तस्मै विशेषः सम्मानः लोकप्रियता च लब्धा।
प्रधानमन्त्री मोदी अवदत् यत् एम.जी.आर.-महाशयस्य जन-कल्याणकारी-नीतीनां संवेदनशील-नेतृत्वस्य च कारणात् अद्यापि समाजस्य दरिद्र-वर्गीयाः जनाः तं स्वस्य महान्तं नेतारं मन्यन्ते।
सन्देशस्य अन्ते प्रधानमन्त्री अवदत् यत् “भारत-रत्न-एम.जी.आर.-महाशयाय अहं स्वां श्रद्धाञ्जलिम् अर्पयामि।”
हिन्दुस्थान समाचार / अंशु गुप्ता